aTTAlasundarAShTakam

Ashtakam

1

विक्रमपाण्ड्य उवाच- कल्याणाचलकोदण्डकान्तदोर्दण्डमण्डितम्। कबलीकृतसंसारं कलयेऽट्टालसुन्दरम्॥

2

कालकूटप्रभाजालकळङ्कीकृतकन्धरम्। कलाधरं कलामौळिं कलयेऽट्टालसुन्दरम्॥

3

कालकालं कलातीतं कलावन्तं च निष्कळम्। कमलापतिसंस्तुत्यं कलयेऽट्टालसुन्दरम्॥

4

कान्तार्धं कमनीयाङ्गं करुणामृतसागरम्। कलिकल्मषदोषघ्नं कलयेऽट्टालसुन्दरम्॥

5

कदम्बकाननाधीशं कांक्षितार्थसुरद्रुमम्। कामशासनमीशानं कलयेऽट्टालसुन्दरम्॥

6

सृष्टानि मायया येन ब्रह्माण्डानि बहूनि च। रक्षितानि हतान्यन्ते कलयेऽट्टालसुन्दरम्॥

7

स्वभक्तजनसंताप पापापद्मङ्गतत्परम्। कारणं सर्वजगतां कलयेऽट्टालसुन्दरम्॥

8

कुलशेखरवंशोत्थभूपानां कुलदैवतम्। परिपूर्णं चिदानन्दं कलयेऽट्टालसुन्दरम्॥

9

अट्टालवीरश्रीशंभोरष्टकं वरमिष्टदम्। पठतां श‍ृण्वतां सद्यस्तनोतु परमां श्रियम्॥

10

इति श्रीहालास्यमाहात्म्ये विक्रमपाण्ड्यकृतं अट्टालसुन्दराष्टकम्॥