Daya Ashtakam
Ashtakam
1
मातस्त्वां रमणेशसद्गुरुकृपे ! नाथामि नत्वा मुहुः क्रुद्धे शान्तिनिकेतनेऽपि रमणे मत्सञ्चितैर्दुष्कृतैः। तत्काले भवती तदीयहृदये सान्निध्यमाबिभ्रती यद्यस्मत्प्रियमातनोषि तदलं तस्य प्रिया त्वं यतः॥
2
देवि ! त्वं करुणे ! श्रितासि रमणं सोऽपि त्वदावर्जितः त्वां हित्वा प्रियवल्लभां स च नृणां भद्रं न कर्तुं क्षमः। त्वं चेत्तस्य विभोर्भवत्कृतपरिष्वङ्गैरपाङ्गैरमुं मामालोकयसे क्षतिस्तव तु का किंस्याच्च मे दुर्दशा॥
3
नाम्नासौ रमणस्समस्तजगतां जागर्ति ते गृह्यकः भक्तार्तिप्रविधूननैकचतुरा मूर्तिस्तवान्यादृशी। तस्मान्मामकमानसार्तिहरणं कुर्या न चेत्त्वं कृपे ! नश्येद्धन्त तवाकृतिर्वद कथं स्यादात्मलाभस्तव॥
4
त्यक्त्वाऽन्यानखिलान् सुरान् सुरपतिं त्वद्वल्लभं सेवितुं शान्तं श्रान्तिहरं तदाश्रमपदं मय्युद्यते गाहितुम्। मातः ! श्रीरमणैकवासिनि ! दये ! विघ्नाः प्ररूढा मुहुः भिन्दंस्तान्पततात् कदा मयि जडे ते श्रान्तिहारी झरः॥
5
किं वा ते रचितं दये ! न रुचितं किञ्चिन्मयोपायनं प्रागेव प्रबलापराधकबलस्त्वत्पादयोरर्पितः। सत्येवं हृदयज्वरं मम कथं हर्तुं विलम्बोऽब ! ते बालस्यार्तिहृतौ समस्ति भुवने को वा विना मातरम्॥
6
एतस्यां दुरवस्थितौ विमुखता यद्यस्ति मत्पालने मग्नोहं विपदम्बुधौ विगलितः क्लिश्नामि नश्यामि च। मग्ना स्या अयशोम्बुधौ त्वमपि, मे यत्किञ्चिदास्तामिदं स्वोद्धारे तु दये ! स्वयं प्रयतनं कर्तव्यमेव त्वया॥
7
सार्वश्यादिगुणास्सहस्रगुणिता ये सन्ति दिव्याद्भुताः ते सर्वे रमणं श्रिता अपि सदा व्यर्था भवत्या विना। स्वीयाख्यां रमणस्य निर्वहयितुं ते न क्षमास्त्वामृते तस्मान्मामक मन्तुजालमखिलं क्षन्तुं दये ! अभ्यर्थये॥
8
पापौघं दलयस्यये ! कबलयस्यार्तीश्च कीर्तिं तनो- ष्यानन्दं परमं च कन्दलयसि श्रेयांसि भूयांसि नः। ब्रह्माद्यानपि किङ्करान् वितनुषे मुक्तिं विदत्सेतरां अम्ब ! श्रीरमणस्वरूपिणि कृपे! बद्धः प्राणामाञ्जलिः॥
9
कलिना बलिना कदर्थितानां स्वहितज्ञानविलुप्तमानसानाम्। इदमस्तु परायणं नराणां रमणेशीयदयाष्टकं धरण्याम्॥
10
इति दयाष्टकं सम्पूर्णम्॥