Shri Rishyashringa Ashtakam

Ashtakam

1

श्रीऋष्यश‍ृङ्गमुनये करुणाकराय सद्यः सुवृष्टिपरिवर्धनकारणाय। शान्ताधिपाय शतमन्युसुपूजिताय श्रीमद्विभाण्डकसुताय सदा नमस्ते॥

2

शान्त्यादिसाधनसुपूरितमानसाय कान्ताय कन्तुपरिसेवितपादुकाय। क्षुत्क्षान्तलोकपरिरक्षणपण्डिताय सर्वार्थदाय गुरवे ऋषये नमस्ते॥

3

सर्वात्मकाय कलिदोषविशोषणाय विद्याभिवेद्यचरणाय सुवर्षणाय। पापापहाय परितापनिवारणाय ब्रह्मात्मबोधजनकाय नमो नमस्ते॥

4

रक्षोघ्नमन्त्रपरितर्जितराक्षसाय श्रीसूर्यवंशपरिवर्धनदीक्षिताय। तुङ्गानदीतटनिवाससमुत्सुकाय चन्द्राननाय मुनये सततं नमस्ते॥

5

तुङ्गाङ्गदेशदुरवग्रहनिग्रहाय जीमूतजातपरिकर्षणतत्पराय। दैन्यापहाय धनधान्यसमृद्धिदाय तस्मै नमो भगवते जगतां हिताय॥

6

विप्रोत्तमाय विदुषां परितोषणाय सत्यादिपोषणरताय सदात्मकाय। काव्यार्थसारहृदयाय कविप्रियाय तस्मै नमोऽस्तु सततं विदुषां वराय॥

7

कल्याणशीलकलिताय कलान्विताय मन्दस्मितास्यकमलाय मनोहराय। धर्मार्थकामवरमोक्षफलप्रदाय नित्यं नमोऽस्तु परमेश्वरपूजकाय॥

8

राजाधिराजपरिसन्नुतवैभवाय भव्याय दिव्यसुगुणाय शुभप्रदाय। सर्वाङ्गसुन्दरकलेबरशोभिताय श्रुत्येकवेद्यनिजरूपविदे नमस्ते॥

9

श‍ृङ्गान्विताय वरमङ्गलकारकाय श्रीचन्द्रचूडकरुणारसपोषिताय। आश्चर्यदिव्यचरिताय मृगीसुताय मृत्युञ्जयाय महते सततं नमस्ते॥

10

श्रीशारदापदसरोजमुपासितेन श्रीशङ्करार्यवरपीठसुसंस्थितेन। सच्चित्सुखात्मकगुरोः करसम्भवेन स्तोत्रं कृतं सुखकरं हि नृसिंहनाम्ना॥

11

ऋष्यश‍ृङ्गमुनेस्स्तोत्रं यत्र यत्र हि पठ्यते। तत्र तत्र सुवृष्टिः स्याद्धनधान्यसमृद्धिदा॥

12

इति श‍ृङ्गेरीजगद्गुरु श्रीश्रीश्री नृसिंहभारतीमहास्वामिभिः विरचितं श्रीऋष्यश‍ृङ्गाष्टकं सम्पूर्णम्॥