kAtyAyanyaShTakam 1
Ashtakam
1
श्रीगणेशाय नमः। अवर्षिसंज्ञं पुरमस्ति लोके कात्यायनी तत्र विराजते या। प्रसाददा या प्रतिभा तदीया सा छत्रपुर्यां जयतीह गेया॥
2
त्वमस्य भिन्नैव विभासि तस्यास्तेजस्विनी दीपजदीपकल्पा। कात्यायनी स्वाश्रितदुःखहर्त्री पवित्रगात्री मतिमानदात्री॥
3
ब्रह्मोरुवेतालकसिंहदाढोसुभैरवैरग्निगणाभिधेन। संसेव्यमाना गणपत्यभिख्या युजा च देवि स्वगणैरिहासि॥
4
गोत्रेषु जातैर्जमदग्निभारद्वाजाऽत्रिसत्काश्यपकौशिकानाम्। कौण्डिन्यवत्सान्वयजैश्च विप्रैर्निजैर्निषेव्ये वरदे नमस्ते॥
5
भजामि गोक्षीरकृताभिषेके रक्ताम्बरे रक्तसुचन्दनाक्ते। त्वां बिल्वपत्रीशुभदामशोभे भक्ष्यप्रिये हृत्प्रियदीपमाले॥
6
खड्गं च शङ्खं महिषासुरीयं पुच्छं त्रिशूलं महिषासुरास्ये। प्रवेशितं देवि करैर्दधाने रक्षानिशं मां महिषासुरघ्ने॥
7
स्वाग्रस्थबाणेश्वरनामलिङ्गं सुरत्नकं रुक्ममयं किरीट्म। शीर्षे दधाने जय हे शरण्ये विद्युत्प्रभे मां जयिनं कुरूष्व॥
8
नेत्रावतीदक्षिणपार्श्वसंस्थे विद्याधरैर्नागगणैश्च सेव्ये। दयाघने प्रापय शं सदास्मान्मातर्यशोदे शुभदे शुभाक्षि॥
9
इदं कात्यायनीदेव्याः प्रसादाष्टकमिष्टदम्। कुमठाचार्यजं भक्त्या पठेद्यः स सुखी भवेत्॥
10
इति श्रीकात्यायन्यष्टकं सम्पूर्णम्॥