sa~NkaTamochana hanumAnAShTakam

Ashtakam

1

ततः स तुलसीदासः सस्मार रघुनन्दनम्। हनूमन्तं तत्पुरस्तात् तुष्टाव भक्तरक्षणम्॥

2

धनुर्बाण धरोवीरः सीता लक्ष्मण सयुतः। रामचन्द्रस्सहायो मां किं करिष्यत्युयं मम॥

3

ॐ हनुमानञ्जनी सूनो वायुपुत्रो महाबलः। महालाङ्गूल निक्षेपैर्निहताखिल राक्षसाः॥

4

श्रीराम हृदयानन्द विपत्तौशरणं तव। लक्ष्मणे निहिते भूमौ नीत्वा द्रोणाचलं युतम्॥

5

यया जीवित वा नाद्य ता शक्तिं प्रकटीं कुरु। येन लङ्केश्वरो वीरो निःशङ्कः विजितस्त्वया॥

6

दुर्निरीक्ष्योऽपिदेवानी तद्बलं दर्शयाधुना॥

7

यया लङ्कां प्रविश्य त्वं ज्ञातवान् जानकी स्वयम्। रावणांतः पुरेऽत्युग्रेतां बुद्धिं प्रकटी कुरु॥

8

रुद्रावतार भक्तार्ति विमोचन महाभुज। कपिराज प्रसन्नस्त्वं शरणं तव रक्ष माम्॥

9

इत्यष्टकं हनुमतः यः पठेत् श्रद्धयान्वितः। सर्वकष्ट विनिर्मुक्तो लभते वाञ्छितफलम्॥

10

ग्रहभूतार्दितेघोरे रणे राजभयेऽथवा। त्रिवारं पठेनाच्छ्रीघ्रं नरो मुच्येत् सङ्कटात्॥

11

इति श्रीगोस्वामितुलसीदास विरचितं श्रीहनुमान्नाष्टकं सम्पूर्णम्॥