Shri Anagha Kavacha Ashtakam

Ashtakam

1

शिरो मे अनघा पातु भालं मे दत्तभामिनी। भ्रूमध्यं योगिनी पातु नेत्रे पातु सुदर्शिनी॥

2

नासारन्ध्रद्वये पातु योगिशी भक्तवत्सला॥

3

मुखं मे मधुवाक्पातु दत्तचित्तविहारिणी॥

4

त्रिकण्ठी पातु मे कण्ठं वाचं वाचस्पतिप्रिया। स्कन्धौ मे त्रिगुणा पातु भुजौ कमलधारिणी॥

5

करौ सेवारता पातु हृदयं मन्दहासिनी। उदरं अन्नदा पातु स्वयञ्जा नाभिमण्डलम्॥

6

कमनिया कटि पातु गुह्यं गुह्येश्वरी सदा। ऊरु मे पातु जम्भघ्नी जानुनी रेणुकेष्टदा॥

7

पादौ पादस्थिता पातु पुत्रदा वै खिलं वपुः। वामगा पातु वामाङ्गं दक्षाङ्ग गुरुगामिनी॥

8

गृहं मे दत्तगृहिणी बाह्ये सर्वात्मिकाऽवतु। त्रिकाले सर्वदा रक्षेत् पतिशुश्रुणोत्सुका॥

9

जाया मे दत्तवामाङ्गी अष्टपुत्रा सुतोऽवतु। गोत्रमत्रि स्नुषा रक्षेदनघा भक्तरक्षणी॥

10

यः पठेदनघाकवचं नित्यं भक्तियुतो नरः। तस्मै भवत्यनघाम्बा वरदा सर्वभाग्यदा॥