Shri Hatakeshvara Ashtakam

Ashtakam

1

जटातटान्तरोलसत्सुरापगोर्मिभास्वरं ललाटनेत्रमिन्दुनाविराजमानशेखरम्। लसद्विभूतिभूषितं फणीन्द्रहारमीश्वरं नमामि नाटकेश्वरं भजामि हाटकेश्वरम्॥

2

पुरान्धकादिदाहकं मनोभवप्रदाहकं महाधराशिनाशकमभीप्सितार्थदायकम्। जगत्त्रयैककारकं विभाकरं विदारकं नमामि नाटकेश्वरं भजामि हाटकेश्वरम्॥

3

मदीय मानसस्थले सदास्तु ते पदद्वयं मदीय वक्त्रपङ्कजे शिवेति चाक्षरद्वयम्। मदीय लोचनाग्रतः सदार्धचन्द्रविग्रहं नमामि नाटकेश्वरं भजामि हाटकेश्वरम्॥

4

भजन्ति हाटकेश्वरं सुभक्तिभावतोत्रये भवन्ति हाटकेश्वरः प्रमाणमात्र नागरः। धनेन तेज साधिका कुलेन चाखिलोन्नता नमामि नाटकेश्वरं भजामि हाटकेश्वरम्॥

5

सदाशिवोऽहमित्यहर्निशं भजेत यो जनः सदा शिवं करोति तं न संशयोत्र कश्चन। अहो दयालुता महेश्वरस्य दृश्यतां बुधा नमामि नाटकेश्वरं भजामि हाटकेश्वरम्॥

6

धराधरात्मजापते त्रिलोचनेश शङ्कर गिरीश चन्द्रशेखराहिराज भूषणेश्वरः। महेश नन्दिवाहनेति सङ्घटन्नहर्निशं नमामि नाटकेश्वरं भजामि हाटकेश्वरम्॥

7

महेश पाहि मां मुदा गिरीश पाहि मां सदा भवार्णवे निमज्जितो त्वमेवमेऽसि तारकः। करावलम्बनं झटित्य होधुनां प्रदीयतां नमामि नाटकेश्वरं भजामि हाटकेश्वरम्॥

8

धराधरेश्वरेश्वरं शिवं निधीश्वरेश्वरं सुरासुरेश्वरं रमापतिश्वरं महेश्वरम्। प्रचण्ड चण्डीकेश्वरं विनीत नन्दिकेश्वरं नमामि नाटकेश्वरं भजामि हाटकेश्वरम्॥

9

हाटकेशस्य भक्त्या यो हाटकेशाष्टकं पठेत्। हाटकेश प्रसादेन हाटकेशत्वमाप्नुयात्॥

10

इति श्रीहाटकेश्वराष्टकं सम्पूर्णम् ।॥