Shri Shripadaraja Ashtakam 1
Ashtakam
1
श्रीमद्वीरनृसिंहनामनृपतेर्भूदेव हत्या व्यथां दूरीकृत्य तदर्पितोज्ज्वलमहासिंहासने संस्थितः। श्रीमत्पूर्वकवाटनामकपुरे सर्वेष्ट सिद्धिप्रदः श्रीपादयतीन्द्रशेखरमणिः भूयात्सनः श्रेयसे॥
2
भेरी मञ्जुळ काहली मुख महानानाविध प्रोज्वल ध्वान्तध्वान निरस्तवादि निचयः श्रीपादराजोस्तु नः। सौवर्णामल दण्डचामरसितच्छत्रोरु हैमोल्लसत् यष्टिद्वन्द्वसुपञ्चवर्णवसनो भूयात्स नः श्रेयसे॥
3
पादत्राणयुगं क्वणत्सुचरणद्वन्द्वेन संयोज्यतत् दुश्शास्त्रं पदकञ्जरक्षणयुगे बन्दीकृतं कूजती। धीरान्मोचयतेति बन्दिषु पुरोगर्जत्सु सिंहासनं गच्छन्मौक्तिक कञ्चुकोज्ज्वलतनुर्भूयात्सनः श्रेयसे॥
4
नानाशाक सुभक्ष्यपायसघृतं प्राज्यान्नभुक्त्याजने निन्दां कुर्वति काननं गतवते यस्मै ददौ श्रीपतिः। मृष्टान्नं सघृतं पयोदधियुतं सोपस्करं कानने गोपीनाथपदाब्ज सक्तसुमनाः भूयात्सनः श्रेयसे॥
5
चैत्रेमासि कठोरभास्करकरैस्सन्तप्तगात्राखिल स्वान्तेवासिभिरर्थिभिः स्वतपसा निर्माय रम्यं सरः। सारामो यतिपुङ्गवः परिजनानप्यायया मासया- च्छायतोय विहीन काननतलेर्भूयात्सनः श्रेयसे॥
6
त्वं चेन्मां जयसिद्धिचामरधुनीं गच्छाविनोचेत्तदा सन्यस्तोभव पण्डितेति सदसी क्षोणीपते पत्रिका। आलेख्यप्रियशिष्यवर्य यतिना यत्याश्रमं वादिनं जित्वादापितवांश्चतस्य सुमतीर्भूयात्सनः श्रेयसे॥
7
वैराग्यामलभक्तिनिर्मल महाज्ञानादि भाग्योज्वलः श्रीमत् श्रीपतिरङ्गविट्ठल पदाम्भोज प्रभावं हृदी। स्मारंस्मारमहर्निशं निजमहानन्दाब्धिमग्नो गुरुः लोकानन्दकरोरु रम्यमहिमा भूयात्सनः श्रेयसे॥
8
यद्वृन्दावन सेवया भुवि जनः प्राप्नोति सौख्यं महत् यद्वृन्दावन मृत्तिकापि निटिले भक्त्या धृता सेविता। भूतोच्चाटनकारिणी क्षयमहापस्मारगुल्मादिका नेक व्याधिनिवारणैककरुणिर्भूयात्सनः श्रेयसे॥