tulajAShTakam

Ashtakam

1

दुग्धेन्दु कुन्दोज्ज्वलसुन्दराङ्गीं मुक्ताफलाहारविभूषिताङ्गीम्। शुभ्राम्बरां स्तनभरालसाङ्गीं वन्देऽहमाद्यां तुलजाभवानीम्॥

2

बालार्कभासामतिचारुहासां माणिक्यमुक्ताफलहारकण्ठीम्। रक्ताम्बरां रक्तविशालनेत्रीं वन्देऽहमाद्यां तुलजाभवानीम्॥

3

श्यामाङ्गवर्णां मृगशावनेत्रां कौशेयवस्त्रां कुसुमेषु पूज्याम्॥

4

कस्तूरिकाचन्दनचर्चिताङ्गीं वन्देऽहमाद्यां तुलजाभवानीम्॥

5

पीताम्बरां चम्पककान्तिगौरीं अलङ्कृतामुत्तममण्डनैश्च। नाशाय भूतां भुवि दानवानां वन्देऽहमाद्यां तुलजाभवानीम्॥

6

चन्द्रार्कताटङ्कधरां त्रिनेत्रां शूलं दधानामतिकालरूपाम्। विपक्षनाशाय धृतायुधां तां वन्देऽहमाद्यां तुलजाभवानीम्॥

7

ब्रह्मेन्द्र नारायणरुद्रपूज्यां देवाङ्गनाभिः परिगीयमानाम्। स्तुतां वचोभिर्मुनिनारदाद्यैः वन्देऽहमाद्यां तुलजाभवानीम्॥

8

अष्टाङ्गयोगे सनकादिभिश्च ध्यातां मुनीन्द्रैश्च समाधिगम्याम्। भक्तस्य नित्यं भुवि कामधेनुं वन्देऽहमाद्यां तुलजाभवानीम्॥

9

सिंहासनस्थां परिवीज्यमानां देवैः समस्तैश्च सुचामरैश्च। छत्रं दधानामतिशुभ्रवर्णां वन्देऽहमाद्यां तुलजाभवानीम्॥

10

पूर्णः कटाक्षोऽखिललोकमातु- र्गिरीन्द्रकन्यां भजतां सुधन्याम्। दारिद्र्यकं नैव कदा जनानां चिन्ता कुतः स्याद्भवसागरस्य॥

11

तुलजाष्टकमिदं स्तोत्रं त्रिकालं यः पठेन्नरः। आयुः कीर्तिर्यशो लक्ष्मी धनपुत्रानवाप्नुयात्॥

12

इति श्रीमच्छङ्कराचार्य विरचितं तुलजाष्टकं सम्पूर्णम्॥