Shri Shaileshashtakam
Ashtakam
1
श्रीदेवराजगुरुभिरनुगृहीतं श्रीरस्तु। श्रीमते हयग्रीवाय नमः। श्रीमते रामानुजाय नमः॥
2
सौम्यजामातृयोगीन्द्रचरणाम्बुजषट्पदम्। देवराजगुरुं वन्दे दिव्यज्ञानप्रदं शुभम्॥
3
शेषः श्रीमानजनि हि पुरा सौम्यजामातृयोगी भोगी भूतस्तदनु भगवान् राघवस्यानुजन्मा। भूत्वा भव्यो वरवरमुनिर्भूयसा भासमानः रक्षत्वस्मान् रघुकुलपतेरास्थितो भद्रपीठम्॥
4
श्रोतुं द्राविडवेदभूरिविवृतिं सौम्योपयन्तुर्मुनेः उत्कण्ठाऽस्ति ममैनमानयत तं तार्क्ष्याश्रयं मण्डपम्। आविश्यार्चकमूचिवानिति मुदा निश्शेषलोकान्वितः रङ्गी वत्सरमेकमेवमशृणोत् व्यक्तं यथोक्तक्रमात्॥
5
श्रीभूभ्यां रङ्गनाथे शठजिदुपनिषद् व्याक्रियां श्रोतुकामे शेषस्सन्तोषयिष्यन् वरवरमुनितां प्राप्य यो वर्ततेऽग्रे। काषायश्रीतुलस्यम्बुजमणिसुशिखायज्ञसूत्रत्रिदण्डैः भान्तं शुभ्रोर्ध्वपुण्ड्रं स्मर हृदय सदा कोशमुद्राङ्कहस्तम्॥
6
कृपया परया स रङ्गराट् महिमानं महतां प्रकाशयन्। लुलुभे स्वयमेव चेतसा वरयोगिप्रवरस्य शिष्यताम्॥
7
समाप्तौ ग्रन्थस्य प्रथितविविधोपायनचये परं सज्जीभूते वरवरमुनेरङ्घ्रिसविधे। हठाद्बालः कश्चित् कुत इति निरस्तोऽप्युपगतः जगौ रङ्गेशाख्यः परिणतचतुर्हायन इदम्॥
8
श्रीमान् रङ्गेश्वरो यद्वकुलवरवचोभाष्यसारार्थजातं श्रुत्वा सौम्योपयन्ता मुनिवरचरणे च्छात्रभावं प्रपन्नः। श्रीशैलेशेति पद्यं खगपतिनिलये मण्डपे तत्समाप्तौ उक्त्वाऽध्येतव्यमेतन्निखिल- निजगृहेष्वादिशत्तत्तदादौ॥
9
वेदादौ पूर्वमुक्त्वा हरिरिति सुजनो वक्ति पश्चाद्यथोमित्येवं वक्तव्यमेतद्वकुलधरवचोऽनुश्रवारम्भकाले। श्रीशैलेशेति पद्यं प्रथममथ सतां संप्रदायैकनिष्ठैः लक्ष्मीनाथेति पद्यं स्वयमिति भगवानादिशद्रङ्गनाथः॥
10
यद्वद्वक्तुं न युक्तं प्रणवहरिपदाभ्यन्तरेऽन्यत्पदं तत् कृष्णेत्येतत्कदाचिन्मुनिशतवचनैर्वैदिकैर्ब्रह्मनिष्ठैः। तद्वद्रङ्गेशभक्तैः शमदमनियतैः साधुभिस्तत्त्वविद्भिः वक्तुं युक्तं न मध्ये सपदि नियतयोरेतयोः पद्यमन्यत्॥
11
शठरिपुरेक एव कमलापतिदिव्यकविः मधुरकविर्यथा च शठजिन्मुनिमुख्यकविः। यतिकुलपुङ्गवस्य भुवि रङ्गसुधाकविराट् वरवरयोगिनो वरदराजकविश्च तथा॥