Shri Tamraparni Ashtakam
Ashtakam
1
या पूर्ववाहिन्यपि मग्ननृणामपूर्ववाहिन्यघनाशनेऽत्र। भ्रूमापहाऽस्माकमपि भ्रमाड्या सा ताम्रपर्णी दुरितं धुनोतु॥
2
माधुर्य नैर्मल्य गुणानुषङ्गात् नैजेन तोयेन समं विधत्ते। वाणीं धियं या श्रितमानवानां सा ताम्रपर्णी दुरितं धुनोतु॥
3
या सप्तजन्मार्जित पापसङ्घनिबर्हणायैव नृणां नु सप्त। क्रोशान् वहन्ती समगात्पयोधिं सा ताम्रपर्णी दुरितं धुनोतु॥
4
कुल्यानकुल्यानपि या मनुष्यान् कुल्या स्वरूपेण बिभर्ति पापम्। निवार्य चैषामपवर्ग दात्री सा ताम्रपर्णी दुरितं धुनोतु॥
5
श्री पापनाशेश्वर लोकनेत्र्यौ यस्याः पयोलुब्धधियौ सदापि। यत्तीरवासं कुरुतः प्रमोदात् सा ताम्रपर्णी दुरितं धुनोतु॥
6
नाहं मृषा वच्मि यदीयतीरवासेन लोकास्सकलाश्च भक्तिम्। वहन्ति गुर्वाङ्घ्रियुगे च देवे सा ताम्रपर्णी दुरितं धुनोतु॥
7
जलस्य योगाज्जडतां धुनाना मलं मनस्थं सकलं हरन्ती। फलं दिशन्ती भजतां तुरीयं सा ताम्रपर्णी दुरितं धुनोतु॥
8
न जह्रुपीता न जटोपरुद्धा महीध्रपुत्र्यापि मुदा निषेव्या। स्वयं जनोद्धारकृते प्रवृत्ता सा ताम्रपर्णी दुरितं धुनोतु॥