Svarupanusandhanashtakam or Vijnananauka

Ashtakam

1

तपोयज्ञदानादिभिः शुद्धबुद्धि- र्विरक्तो नृपादेः पदे तुच्छबुद्ध्या। परित्यज्य सर्वं यदाप्नोति तत्त्वं परं ब्रह्म नित्यं तदेवाहमस्मि॥

2

दयालुं गुरुं ब्रह्मनिष्ठं प्रशान्तं समाराध्य मत्या विचार्य स्वरूपम्। यदाप्नोति तत्त्वं निदिध्यास विद्वान्- परं ब्रह्म नित्यं तदेवाहमस्मि॥

3

यदानन्दरूपं प्रकाशस्वरूपं निरस्तप्रपञ्चं परिच्छेदहीनम्। अहम्ब्रह्मवृत्त्यैकगम्यं तुरीयं परं ब्रह्म नित्यं तदेवाहमस्मि॥

4

यदज्ञानतो भाति विश्वं समस्तं विनष्टं च सद्यो यदात्मप्रबोधे। मनोवागतीतं विशुद्धं विमुक्तं परं ब्रह्म नित्यं तदेवाहमस्मि॥

5

निषेधे कृते नेति नेतीति वाक्यैः समाधिस्थितानां यदाभाति पूर्णम्। अवस्थात्रयातीतमद्वैतमेकं परं ब्रह्म नित्यं तदेवाहमस्मि॥

6

यदानन्दलेशैः समानन्दि विश्वं यदाभाति सत्त्वे तदाभाति सर्वम्। यदालोकने रूपमन्यत्समस्तं परं ब्रह्म नित्यं तदेवाहमस्मि॥

7

अनन्तं विभुं निर्विकल्पं निरीहं शिवं सङ्गहीनं यदोङ्कारगम्यम्। निराकारमत्युज्ज्वलं मृत्युहीनं परं ब्रह्म नित्यं तदेवाहमस्मि॥

8

यदानन्द सिन्धौ निमग्नः पुमान्स्या- दविद्याविलासः समस्तप्रपञ्चः। तदा नः स्फुरत्यद्भुतं यन्निमित्तं परं ब्रह्म नित्यं तदेवाहमस्मि॥

9

स्वरूपानुसन्धानरूपां स्तुतिं यः पठेदादराद्भक्तिभावो मनुष्यः। श्रुणोतीह वा नित्यमुद्युक्तचित्तो भवेद्विष्णुरत्रैव वेदप्रमाणात्॥

10

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ स्वरूपानुसन्धानाष्टकं सम्पूर्णम्॥