Shri Gopaladevashtakam

Ashtakam

1

मधुरमृदुलचित्तः प्रेममात्रैकवित्तः स्वजनरचितवेषः प्राप्तशोभाविशेषः। विविधमणिमयालङ्कारवान् सर्वकालं स्फुरतु हृदि स एव श्रीलगोपालदेवः॥

2

निरुपमगुणरूपः सर्वमाधुर्यभूपः श्रिततनुरुचिदास्यः कोटिचन्द्रस्तुतास्यः। अमृतविजयिहास्यः प्रोच्छलच्चिल्लिलास्यः स्फुरतु हृदि स एव श्रीलगोपालदेवः॥

3

धृतनवपरभागः सव्यहस्तस्थितागः प्रकटितनिजकक्षः प्राप्तलावण्यलक्षः। कृतनिजजनरक्षः प्रेमविस्तारदक्षः स्फुरतु हृदि स एव श्रीलगोपालदेवः॥

4

क्रमवलदनुरागस्वप्रियापाङ्गभाग ध्वनितरसविलासज्ञानविज्ञापिहासः। स्मृतरतिपतियागः प्रीतिहंसीतडागः स्फुरतु हृदि स एव श्रीलगोपालदेवः॥

5

मधुरिमभरमग्ने भात्यसव्येऽवलग्ने त्रिवलिरलसवत्त्वात्यस्य पुष्टानतत्वात्। इतरत इह तस्या माररेखेव रस्या स्फुरतु हृदि स एव श्रीलगोपालदेवः॥

6

वहति वलितहर्षं वाहयंश्चानुवर्षं भजति च सगणं स्वं भोजयन् योऽर्पयन् स्वम्। गिरिमुकुटमणिं श्रीदामवन्मित्रताश्रीः स्फुरतु हृदि स एव श्रीलगोपालदेवः॥

7

अधिधरमनुरागं माधवेन्द्रस्य तन्वं- स्तदमलहृदयोत्थां प्रेमसेवां विवृण्वन्। प्रकटितनिजशक्त्या वल्लभाचार्यभक्त्या स्फुरतु हृदि स एव श्रीलगोपालदेवः॥

8

प्रतिदिनमधुनापि प्रेक्ष्यते सर्वदापि प्रणयसुरसचर्या यस्य वर्या सपर्या। गणयतु कति भोगान् कः कृती तत्प्रयोगान् स्फुरतु हृदि स एव श्रीलगोपालदेवः॥

9

गिरिधरवरदेवस्याष्टकेनेममेव स्मरति निशि दिने वा यो गृहे वा वने वा। अकुटिलहृदयस्य प्रेमदत्वेन तस्य स्फुरतु हृदि स एव श्रीलगोपालदेवः॥

10

इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीगोपालदेवाष्टकं सम्पूर्णम् ।॥