Shri Narottamashtakam

Ashtakam

1

श्रीकृष्णनामामृतवर्षिवक्त्र चन्द्रप्रभाध्वस्ततमोभराय। गौराङ्गदेवानुचराय तस्मै नमो नमः श्रीलनरोत्तमाय॥

2

सङ्कीर्तनानन्दजमन्दहास्य दन्तद्युतिद्योतितदिङ्मुखाय। स्वेदाश्रुधारास्नपिताय तस्मै नमो नमः श्रीलनरोत्तमाय॥

3

मृदङ्गनादश्रुतिमात्रचञ्चत् पदाम्बुजामन्दमनोहराय। सद्यः समुद्यत्पुलकाय तस्मै नमो नमः श्रीलनरोत्तमाय॥

4

गन्धर्वगर्वक्षपणस्वलास्य विस्मापिताशेषकृतिव्रजाय। स्वसृष्टगानप्रथिताय तस्मै नमो नमः श्रीलनरोत्तमाय॥

5

आनन्दमूर्च्छावनिपातभात धूलीभरालङ्कृतविग्रहाय। यद्दर्शनं भाग्यभरेण तस्मै नमो नमः श्रीलनरोत्तमाय॥

6

स्थले स्थले यस्य कृपाप्रपाभिः कृष्णान्यतृष्णा जनसंहतीनाम्। निर्मूलिता एव भवन्ति तस्मै नमो नमः श्रीलनरोत्तमाय॥

7

यद्भक्तिनिष्ठा पलरेखिकेव स्पर्शः पुनः स्पर्शमणीव यस्य। प्रामाण्यमेवं श्रुतिवद्यदीयं तस्मै नमः श्रीलनरोत्तमाय॥

8

मूर्तैव भक्तिः किमयं किमेष वैराग्यसारस्तनुमान् नृलोके। सम्भाव्यते यः कृतिभिः सदैव तस्मै नमः श्रीलनरोत्तमाय॥

9

राजन्मृदङ्गकरतालकलाभिरामं गौराङ्गगानमधुपानभराभिरामम्। श्रीमन्नरोत्तमपदाम्बुजमञ्जुनृत्यं भृत्यं कृतार्थयतु मां फलितेष्टकृत्यम्॥

10

इति श्रीमद्विश्वनाथचक्रवर्तिविरचितं श्रीनरोत्तमाष्टकं सम्पूर्णम् ।॥