vallabhasharaNAShTakam

Ashtakam

1

निःसाधनजनोद्धारकरणप्रकटीकृतः। गोकुलेशस्वरूपः श्रीवल्लभश्शरणं मम॥

2

भजनानन्ददानार्थं पुष्टिमार्गप्रकाशकः। करुणावरणीयः श्रीवल्लभः शरणं मम॥

3

स्वामिनीभावसंयुक्तभगवद्भावभावितः। अत्यलौकिकमूर्तिः श्रीवल्लभः शरणं मम॥

4

श्रीकृष्णवदनानन्दो वियोगानलमूर्तिमान्। भक्तिमार्गाब्जभानुः श्रीवल्लभः शरणं मम॥

5

रासलीलारसभरसमाक्रान्ताऽखिलाङ्गभृत्। भावरूपाखिलाङ्गः श्रीवल्लभः शरणं मम॥

6

श्रीभागवतभावार्थाविर्भावार्थानतारितः। स्वामिसन्तोषहेतुः श्रीवल्लभः शरणं मम॥

7

वल्लावीवल्लाभातःस्थलीलानुभववल्लभः। अन्यास्फुरणरूपः श्रीवल्लभः शरणं मम॥

8

जिताम्भोजपदाम्भोजविभूषितवसुन्धरः। सदा गोवर्धनस्थः श्रीवल्लभः शरणं मम॥

9

अनन्यस्तन्मना नित्यं पठेद्यः शरणाष्टकम्। स लभेत्साधनाभावयुक्तोऽप्येतत्पदाश्रयः॥