Shri Kantimatishvari Ashtakam

Ashtakam

1

श्रीमद्वेणुवनेश्वरस्य रमणीं शीतांशुबिम्बाननां शिञ्जन्नूपुरकोमलाङ्घ्रिकमलां केयूरहारान्विताम्। रत्नस्यूतकिरीटकुण्डलधरां हेलाविनोदप्रियां श्रीमत्कान्तिमतीश्वरीं हृदि भजे श्रीराजराजेश्वरीम्॥

2

तत्त्वज्ञानिहृदब्जमध्यनिलयां ताम्रापगातीरगां कारुण्याम्बुनिधिं तडित्तुलितभां तालीदलश्यामलाम्। लीलासृष्टिविधायिनीं तनुभृतां तात्पर्यबोधाप्तये तन्वीं कान्तिमतीश्वरीं हृदि भजे श्रीराजराजेश्वरीम्॥

3

सङ्गीतामृतसिन्धुमध्यभवनां साहित्यनित्यादरां स्वारस्याद्भुतनाट्यवीक्षणपरां सालोक्यमुक्त्यादिदाम्। साधुभ्यः सकलामरार्थितमहासाम्राज्यलक्ष्मीप्रदां साध्वीं कान्तिमतीश्वरीं हृदि भजे श्रीराजराजेश्वरीम्॥

4

कल्याणीमखिलाण्डकोटिजननीं कल्हारदामोज्ज्वलां कस्तूरीतिलकाभिरामनिटिलां कञ्जासनाराधिताम्। कामारेःकनकाचलेन्द्रधनुषः कारुण्यवारान्निधेः कान्तां कान्तिमतीश्वरीं हृदि भजे श्रीराजराजेश्वरीम्॥

5

भक्तानां भयजालभञ्जनकरीं भान्वब्जशुक्रेक्षणां भाग्योदारगुणान्वितां भगवतीं भण्डासुरध्वंसिनीम्। भास्वद्रत्नकिरीटकुण्डलधरां भद्रासनाध्यासिनीं भव्यां कान्तिमतीश्वरीं हृदि भजे श्रीराजराजेश्वरीम्॥

6

देवानामभयप्रदां विधिनुतां दुष्टापहन्त्रीं सुखां देशानेकदिगन्तमध्यनिलयां देहार्धदास्यप्रियाम्। माधुर्याकरचन्द्रखण्डमकुटां देवाङ्गनासेवितां देवीं कान्तिमतीश्वरीं हृदि भजे श्रीराजराजेश्वरीम्॥

7

दुष्टाटोपविनाशनैकनिपुणां दौर्भाग्यविच्छेदिनीं दुर्मात्सर्यमदाभिमानमथिनीं दुःखापहां प्राणिनाम्। दुर्वारामितदैत्यभञ्जनकरीं दुःस्वप्नहन्त्रीं शिवां दुर्गां कान्तिमतीश्वरीं हृदि भजे श्रीराजराजेश्वरीम्॥

8

मन्दस्मेरमुखाम्बुजां मरकतश्यामां महावैभवां मातङ्गीं महिषासुरस्य शमनीं मातङ्गकुम्भस्तनीम्। मन्दारद्रुमसन्निभां सुमधुरां सिंहासनाध्यासितां मान्यां कान्तिमतीश्वरीं हृदि भजे श्रीराजराजेश्वरीम्॥

9

इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीकान्तिमतीश्वर्यष्टकं सम्पूर्णम्। A Rare Composition on Tirunelveli Kanthimathi Ambal NA, PSA Easwaran॥