shrIpavanajAShTakam

Ashtakam

1

भवभयापहं भारतीपतिं भजकसौख्यदं भानुदीधितिम्। भुवनसुन्दरं भूतिदं हरिं भजत सज्जना मारुतात्मजम्॥

2

अमितविक्रमं ह्यञ्जनासुतं भयविनाशनं त्वब्जलोचनम्। असुरघातिनं ह्यब्धिलङ्घिनं भजत सज्जना मारुतात्मजम्॥

3

परभयङ्करं पाण्डुनन्दनं पतितपावनं पापहारिणम्। परमसुन्दरं पङ्कजाननं भजत सज्जना मारुतात्मजम्॥

4

कलिविनाशकं कौरवान्तकं कलुषसंहरं कामितप्रदम्। कुरुकुलोद्भवं कुम्भिणीपतिं भजत सज्जना मारुतात्मजम्॥

5

मतविवर्धनं मायिमर्दनं मणिविभञ्जनं मध्वनामकम्। महितसन्मतिं मानदायकं भजत सज्जना मारुतात्मजम्॥

6

द्विजकुलोद्भवं दिव्यविग्रहं दितिजहारिणं दीनरक्षकम्। दिनकरप्रभं दिव्यमानसं भजत सज्जना मारुतात्मजम्॥

7

कपिकुलोद्भवं केसरीसुतं भरतपङ्कजं भीमनामकम्। विबुधवन्दितं विप्रवंशजं भजत सज्जना मारुतात्मजम्॥

8

पठति यः पुमान् पापनाशकं पवनजाष्टकं पुण्यवर्धनम्। परमसौख्यदं ज्ञानमुत्तमं भुवि सुनिर्मलं याति सम्पदम्॥