Shri Nilakantha Chintana Ashtakam

Ashtakam

1

(उपजाति वृत्तम्) ब्राह्मे मुहूर्ते शयनं विहाय निजस्वरूपं हृदि चिन्तयित्वा। स्नातं विशुद्धं प्रचुराभिरद्भिः श्रीनीलकण्ठ हृदि चिन्तयामि॥

2

श्वेतं च सूक्ष्मं परिधाय वासः सितं द्वितीयं वसनं वसित्वा। चतुष्क-पीठाद् द्रुतमुत्तरन्तं श्रीनीलकण्ठं हृदि चिन्तयामि॥

3

आशूपविश्या-मलनैजपीठे विधाय सन्नैष्ठिक-कर्म नित्यम्। नारायणं मालिकया स्मरन्तं श्रीनीलकण्ठं हृदि चिन्तयामि॥

4

सुगन्धिना केसर-चन्दनेन सन्मल्लिका-चम्पकपुष्पहारैः। सम्पूज्यमानं निजभक्तवर्यैः श्रीनीलकण्ठं हृदि चिन्तयामि॥

5

कर्णे दधानं कुसुमावतंसं शिरःपटे कौसुम-शेखरालिम्। कण्ठे च नानाविध-पुष्पहारान् श्रीनीलकण्ठं हृदि चिन्तयामि॥

6

भक्ष्यैश्च भोज्यैः सह लेह्यचोष्यै- र्द्रष्ट्वा पुरा भोजनभाजनं च। पूरी-मदन्तं च ससूपभक्तं श्रीनीलकण्ठं हृदि चिन्तयामि॥

7

भक्तैरनेकैर्मुनिभिर्गृहस्थैर् वृत्तं सभायां भगणैरिवेन्दुम्। सहास-वक्त्राम्बुज-चारुनेत्रं श्रीनीलकण्ठं हृदि चिन्तयामि॥

8

निःसीम-कारुण्य-सुधामयेन विलोकनेनातिमुदा स्वभक्तम्। बद्धाञ्जलिं दीनमवेक्षमाणं श्रीनीलकण्ठं हृदि चिन्तयामि॥

9

श्रीदीनानाथभट्टविरचितं श्रीनीलकण्ठचिन्तनाष्टकं सम्पूर्णम् ।॥