Shri Lalitoktatotakashtakam

Ashtakam

1

नयनेरितमानसभूविशिखः शिरसि प्रचलप्रचलाकशिखः। मुरलीध्वनिभिः सुरभीस्त्वरयन् पशुपीविरहव्यसनं तिरयन्॥

2

परितो जननीपरितोषकरः सखि लम्पटयन्नखिलं भुवनम्। तरुणीहृदयं करुणी विदधत् तरलं सरले करलम्बिगुणः॥

3

दिवसोपरमे परमोल्लसितः कलशस्तनि हे विलसद्धसितः। अतसीकुसुमं विहसन्महसा हरिणीकुलमाकुलयन् सहसा॥

4

प्रणयिप्रवणः सुभगश्रवण प्रचलन्मकरः ससखिप्रकरः। मदयन्नमरीर्भ्रमयन् भ्रमरी मिलितः कतिभिः शिखिनां तातभिः॥

5

अयमुज्ज्वलयन् व्रजभूसरणीं रमयन् क्रमणैर्मृदुभिर्धरणीम्। अजिरे मिलितः कलितप्रमदे हरिरुद्विजसे तदपि प्रमदे॥

6

वद मा परुषं हृदये न रुषं रचय त्वमतश्चल विभ्रमतः। उदिते मिहिकाकिरणे न हि का रभसादयि तं भजते दयितम्॥

7

कलय त्वरया विलसत्सिचयः प्रसरत्यभितो युवतीनिचयः। निदधाति हरिर्नयनं सरणौ तव विक्षिप सप्रणयं चरणौ॥

8

इति तामुपदिश्य तदा स्वसखीं ललिता किल मानितया विमुखीम्। अनयत् प्रसभादिव यं जवतः कुरुतात् स हरिर्भविकं भवतः॥

9

इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीललितोक्ततोटकाष्टकं सम्पूर्णम् ।॥