Vrindadevyashtakam

Ashtakam

1

विश्वनाथचक्रवर्ती ठकुरकृतम्। गाङ्गेयचाम्पेयतडिद्विनिन्दिरोचिःप्रवाहस्नपितात्मवृन्दे। बन्धूकबन्धुद्युतिदिव्यवासोवृन्दे नुमस्ते चरणारविन्दम्॥

2

बिम्बाधरोदित्वरमन्दहास्यनासाग्रमुक्ताद्युतिदीपितास्ये। विचित्ररत्नाभरणश्रियाढ्ये वृन्दे नुमस्ते चरणारविन्दम्॥

3

समस्तवैकुण्ठशिरोमणौ श्रीकृष्णस्य वृन्दावनधन्यधामिन्। दत्ताधिकारे वृषभानुपुत्र्या वृन्दे नुमस्ते चरणारविन्दम्॥

4

त्वदाज्ञया पल्लवपुष्पभृङ्गमृगादिभिर्माधवकेलिकुञ्जाः। मध्वादिभिर्भान्ति विभूष्यमाणाः वृन्दे नुमस्ते चरणारविन्दम्॥

5

त्वदीयदौत्येन निकुञ्जयूनोः अत्युत्कयोः केलिविलाससिद्धिः। त्वत्सौभगं केन निरुच्यतां तद्वृन्दे नुमस्ते चरणारविन्दम्॥

6

रासाभिलाषो वसतिश्च वृन्दावने त्वदीशाङ्घ्रिसरोजसेवा। लभ्या च पुंसां कृपया तवैव वृन्दे नुमस्ते चरणारविन्दम्॥

7

त्वं कीर्त्यसे सात्वततन्त्रविद्भिः लीलाभिधाना किल कृष्णशक्तिः। तवैव मूर्तिस्तुलसी नृलोके वृन्दे नुमस्ते चरणारविन्दम्॥

8

भक्त्या विहीना अपराधलेशैः क्षिप्ताश्च कामादितरङ्गमध्ये। कृपामयि त्वां शरणं प्रपन्नाः वृन्दे नुमस्ते चरणारविन्दम्॥

9

वृन्दाष्टकं यः श‍ृणुयात्पठेच्च वृन्दावनाधीशपदाब्जभृङ्गः। स प्राप्य वृन्दावननित्यवासं तत्प्रेमसेवां लभते कृतार्थः॥