Kamasikashtakam
Ashtakam
1
श्रीवेदान्तदेशिकृतम्। (काञ्च्यां) श्रुतीनामुत्तरं भागं वेगवत्याश्च दक्षिणम्। कामादधिवसन् जीयात्कश्चिदद्भुतकेसरी॥
2
तपनेन्द्वग्निनयनः तापानपचिनोतु नः। तापनीयरहस्यानां सारः कामासिकाहरिः॥
3
आकण्ठमादिपुरुषं कण्ठीरवमुपरि कुण्ठितारातिम्। वेगोपकण्ठसङ्गाद्विमुक्तवैकुण्ठबहुमतिमुपासे॥
4
बन्धुमखिलस्य जन्तोर्बन्धुरपर्यङ्कबन्धरमणीयम्। विषमविलोचनमीडे वेगवतीपुलिनकेलिनरसिंहम्॥
5
स्वस्थानेषु मरुद्गणान् नियमयन् स्वाधीनसर्वेन्द्रियः पर्यङ्कस्थिरधारणाप्रकटितप्रत्यङ्मुखावस्थितिः। प्रायेण प्रणिपेदुषः प्रभुरसौ योगं निजं शिक्षयन् कामानातनुतादशेष जगतां कामासिका केसरी॥
6
विकस्वरनखस्वरुक्षतहिरण्यवक्षःस्थली निरर्गलविनिर्गलद्रुधिरसिन्धुसन्ध्यायिताः। अवन्तु मदनासिका मनुजपञ्चवक्त्रस्य मां अहम्प्रथमिका मिथः प्रकटिताहवा बाहवः॥
7
सटापटलभीषणे सरभसाट्टहासोद्भटे स्फुरत्क्रुधिपरिस्फुटभ्रुकुटिकेऽपि वक्त्रे कृते। कृपाकपटकेसरिन् दनुजडिम्भदत्तस्तना सरोजसदृशा दृशा व्यतिविषज्य ते व्यज्यते॥
8
त्वयि रक्षति रक्षकैः किमन्यैस्त्वयि चारक्षति रक्षकैः किमन्यैः। इति निश्चितधीः श्रयामि नित्यं नृहरे वेगवतीतटाश्रयं त्वाम्॥
9
इत्थं स्तुतः सकृदिहाष्टभिरेष पद्यैः श्रीवेङ्कटेशरचितैस्त्रिदशेन्द्रवन्द्यः। दुर्दान्तघोरदुरितद्विरदेन्द्रभेदी कामासिकानरहरिर्वितनोतु कामान्॥