Jagannath Ashtakam
Ashtakam
1
कदाचित्कालिन्दीतटविपिनसङ्गीतकरवो var कवरो मुदा गोपीनारीवदनकमलास्वादमधुपः। var भीरी रमाशम्भुब्रह्मामरपतिगणेशार्चितपदो जगन्नाथः स्वामी नयनपथगामी भवतु मे॥
2
भुजे सव्ये वेणुं शिरसि शिखिपिंछं कटितटे var पिच्छिं दुकूलं नेत्रान्ते सहचरकटाक्षं विदधते। सदा श्रीमद्वृन्दावनवसतिलीलापरिचयो जगन्नाथः स्वामी नयनपथगामी भवतु मे॥
3
महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरे वसन् प्रासादान्तस्सहजबलभद्रेण बलिना। सुभद्रामध्यस्थस्सकलसुरसेवावसरदो जगन्नाथः स्वामी नयनपथगामी भवतु मे॥
4
कृपापारावारास्सजलजलदश्रेणिरुचिरो रमावाणीसौमस्सुरदमलपद्मोद्भवमुखैः। var वाणीरामस् सुरेन्द्रैराराध्यः श्रुतिगणशिखागीतचरितो जगन्नाथः स्वामी नयनपथगामी भवतु मे॥
5
रथारूढो गच्छन् पथि मिलितभूदेवपटलैः स्तुतिप्रादुर्भावं प्रतिपद मुपाकर्ण्य सदयः। दयासिन्धुर्बन्धुस्सकलजगता सिन्धुसुतया जगन्नाथः स्वामी नयनपथगामी भवतु मे॥
6
परब्रह्मापीडः कुवलयदलोत्फुल्लनयनो निवासी नीलाद्रौ निहितचरणोऽनन्तशिरसि। रसानन्दो राधासरसवपुरालिङ्गनसखो जगन्नाथः स्वामी नयनपथगामी भवतु मे॥
7
न वै प्रार्थ्यं राज्यं न च कनकतां भोगविभवं न याचेऽहं रम्यां निखिलजनकाम्यां वरवधूम्। सदा काले काले प्रमथपतिना गीतचरितो जगन्नाथः स्वामी नयनपथगामी भवतु मे॥
8
हर त्वं संसारं द्रुततरमसारं सुरपते हर त्वं पापानां विततिमपरां यादवपते। अहो दीनानाथं निहितमचलं निश्चितपदं जगन्नाथः स्वामी नयनपथगामी भवतु मे॥
9
इति श्रीमद् शङ्कराचार्यप्रणीतं जगन्नाथाष्टकं सम्पूर्णं॥