Sharanashtakam
Ashtakam
1
आर्तत्राणपरायणे ! भगवति ! ब्रह्मेन्द्रनारायण- स्तुत्ये शाणित सत्कृपाणनृशिरोऽभीतिष्टपाणे शिवे !। मातर्मुक्तशिरोरुहे ! नरशिरःस्त्रग्भूषणे भीषणे ! श्यामे ! त्वच्चरणं व्रजामि शरणं गत्यन्तरं नास्ति मे॥
2
आजन्मामरणं च कालहरणं प्रायो ममाकारणं शुद्धान्तःकरणं कदाचन च ना नाम्नस्तवोच्चारणम्। सत्कर्मांचरणं च नाहह वृथा प्राणस्य सन्धारणं श्यामे ! त्वच्चरणं व्रजामि शरणं गत्यन्तरं नास्ति मे॥
3
नाधीतं विधिवन्न वा हरिहरौ भक्त्या समाराधितौ। तप्तं नैव तपो मनागपि मया मायामयेऽस्मिन् भवे। न प्रत्तं न हुतं च सम्यगधुना भीतोऽन्तकालेऽन्तकात् श्यामे ! त्वच्चरणं व्रजामि शरणं गत्यन्तरं नास्ति मे॥
4
नो तीर्थाण्युपसेवितानि गुरवो भक्त्या न संसेविता नो श्राद्धैरपि तर्पिताः स्वपितरश्चीर्णं न किञ्चिद् व्रतम्। भक्त्या नातिशयोर्चिताः सपदि हा ! हन्तातिचिन्तातुरः श्यामे ! त्वच्चरणं व्रजामि शरणं गत्यन्तरं नास्ति मे॥
5
नाचारो मम विद्यते न विनयो वैधं न शौचं परं न ज्ञानं न विरागता न च पराभक्तिर्भवत्यामपि। मातः शासनतोऽव मां पितृपते प्रेताकृती शासने श्यामे ! त्वच्चरणं व्रजामि शरणं गत्यन्तरं नास्ति मे॥
6
स्वं वर्णोचितमाश्रमोचितमपि प्रायेण नानुष्ठितं सत्कृत्यं विधिवन्मया हतधिया शास्त्रोदितं श्रेयसे। चेतः सीदति साम्प्रतं जननि ! मे तत् सव्यथं सर्वथा श्यामे ! त्वच्चरणं ! व्रजामि शरणं गत्यन्तरं नास्ति मे॥
7
नीतं दुर्व्यसनैर्महद्भिरशिवोदकैः शिवे ! शैशवं तारुण्यञ्च कलत्रपुत्रभरणाद्यर्थेपदर्थेहया। कालत्रासवशेन सम्प्रति जडीभूतो जराजर्जरः श्यामे ! त्वच्चरणं व्रजामि शरणं गन्यन्तरं नास्ति मे॥
8
सञ्चिन्त्यान्तकमन्ततोऽन्तिकतमं सन्त्रासपर्याकुलं स्वान्तं ध्वान्तमनन्तकं जननि ! मेऽशान्तं समुद्गाहते। हन्ताश्वासय साम्प्रतं सकृदपि व्याहृत्य मा भैरिति श्यामे ! त्वच्चरणं व्रजामि शरणं गत्यन्तरं नास्ति मे॥
9
माता रुदितमिदं मे मरणासन्न-प्रसन्नमिश्रस्य। शृणु शिवहृदयनिषण्णे बहुदयहृदयेऽवसन्नस्य॥