Adishesha Ashtakam

Ashtakam

1

नित्यशय्या श्रीपतेर्यः आदिरोष इति श्रुतः फणासहस्रमूर्धां च शङ्खचक्रगदाऽसिधृत्। हस्तेश्चतुर्भिः श्रीकान्तनित्यकैङ्कर्यदीक्षितः भातु मे हदये नित्यं नागराजो महाद्युतिः॥

2

जगज्नन्मस्थितिलयान् कुर्वन् श्रीरमया सह। यस्मिन् शेते मोदमानस्तस्मै शेषाय ॐ नमः॥

3

प्राणान् सप्तगतीन्यस्तु सप्तप्राकारमातनोत्। श्रीशमण्टपनिर्माणे तस्यै शेषाय ॐ नमः॥

4

स्वस्वामिसेवाकरणे अपवर्णनिवारकम्। ततान यो महाभाष्यं तस्मै शेषाय ॐ नमः॥

5

स्वफणामण्डलं यो वै भूषाच्छत्रं चकारह। स्वामिने स्वस्य मधुरं तस्मै शेषाय ॐ नमः॥

6

आदिः किङ्करकूटानां पराराधनरूपिणाम्। आदिशेष इति ख्यातस्तस्मै शेषाय ॐ नमः॥

7

श्रीशसेवाभिवृद्ध्यर्थं गात्रचित्तविशोधकम्। अष्टाङ्गयोगं तेनेयस्तस्मै शेषाय ॐ नमः॥

8

स्वतो भास्वत्स्वरूपस्य शेष कैङ्कर्यरूपकम्। चक्रे फणामणिज्योति तस्मै शेषाय ॐ नमः॥

9

मृदुल धवलं चाल्पशीतलं विस्तृतं तथा। आसनं पुच्छविन्यासात् तस्मै शेषाय ॐ नमः॥

10

आदिशेषाष्टकमिदं कृष्णयोगिकृतं मुदे। शायिनो आदिशेषे हि भवत्विति कृताञ्जलिः॥