Chandisha Ashtakam

Ashtakam

1

आस्माकीनं करालं जवमिह भुवने कः सहेदित्यखर्वा- हङ्कारोल्लासवल्गल्लहरिशतलुठल्लोलयादोमतल्ली। मल्लीमालेव यस्योद्भटविकटजटाकोटरे निष्पतन्ती दीव्यत्यभ्रस्रवन्ती स मम हृदि सदा भातु चन्द्रार्धचूडः॥

2

व्योम्नीवाम्भोदलेखा हृद इव लहरीधोरणी पूषणीव श्यामाकान्तांशुलक्ष्मीरुदयमथ लयं याति यत्र त्रिलोकी। ज्वालाजिह्वालफालज्वलनकवलितोद्दर्पकन्दर्पवीरो हीरोवृन्दारकाणां विशदयतुतरां शेमुषीं सोऽष्टमूर्तिः॥

3

उद्यत्सान्द्राम्बुवाहव्यतिकरसुषभासन्निभे कण्ठपीठे शम्पाराजीव यस्यावनिधरदुहि तुर्दोर्लता जाज्वलीति। स त्रैलोक्यैकनाथोऽदितितनयधुनीमुग्धडिण्डीरपिण्ड- प्रख्यः श्रीकङ्कटीको मम निबिडतमोग्रन्थिभेदाय भूयात्॥

4

सन्तापस्विन्नचूडामृतकिरणगलत्स्फारपीयूषधारा भालाग्नौ यस्य दुग्धाहुतिरिव सततं स्पन्दमाना चकास्ति। स ब्रह्माण्डप्रकाशावनलयघटनानाटिकासूत्रधारो गौरीप्राणप्रियो नः प्रथयतु नितरां तानि तानीहितानि॥

5

श्रीपीयूषादिवस्तुप्रकरविभजनोद्भूतवादैकविज्ञा देवंमन्या महेछा अहह कति दिवो भारभूता न सन्ति। देवस्त्वेकस्त्रिलोकाद्मरविषकवलीकारकेलीविदग्धो वर्वर्त्यार्तानुकम्पाधृततनुघटनासेचनो रेरिहाणः॥

6

पुष्पानेहेव बाढं विबुधविटपिषूत्कर्षपुष्पप्रकर्ष तन्वन्सुप्तोऽपि सद्यो मयपुरदहनं यो व्याधाद्विश्र्वभूत्यै। सोऽव्यान्मूर्तोऽप्यमूर्तो यतिरपि सतताहीनभोगोपभोगी कान्ताश्लिष्टोऽप्यकान्तः शशधरमुकुटालङ्कृतिर्देवदेवः॥

7

देवानां सार्वभौमो विविधभवभवाज्ञानवाटीकुठारः श्रेयः श्रीरङ्गशालाखिलनिगमकलाकल्पनोल्लाससीमा। सर्वाहोभङ्गबीजं मुनिजनहृदयागाररत्नप्रदीपः कश्चिद्भू मास्तु भूत्यै स्फुटकुमुदवनीभार्गवीगेयकान्तिः॥

8

क्रोडक्रीडत्पृदाकूत्कटविकटजटाटोपटङ्कारकेलि- त्रुट्यन्नक्षत्रचक्रक्रमिकचटचटाकारिवृष्टिप्रकृष्टम्। उच्चैर्दोर्दण्डखण्डभ्रमणवलयिताशेभचीत्कारचण्डं पादप्रक्षेपकम्प्रक्षिति मदनकृषस्ताण्डवं नः पुनातु॥

9

इति श्रीदुर्गाप्रसादद्विवेदीविरचितं चण्डीशाष्टकं सम्पूर्णम्॥