Shri Vrajanavayuvarajashtakam

Ashtakam

1

श्रीव्रजनवयुवराजाय नमः। मुदिरमदमुदारं मर्दयन्नङ्गकान्त्या वसनरुचिनिरस्ताम्भोजकिञ्जल्कशोभः। तरुणिमतरणीक्षाविक्लवद्बाल्यचन्द्रो व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट॥

2

पितुरनिशमगण्यप्राणनिर्मन्थनीयः कलिततनुरिवाद्धा मातृवात्सल्यपुञ्जः। अनुगुणगुरुगोष्ठीदृष्टिपीयूषवर्ति- र्व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट॥

3

अखिलजगति जाग्रन्मुग्धवैदग्ध्यचर्या प्रथमगुरुरुदग्रस्थामविश्रामसौधः। अनुपमगुणराजीरञ्जिताशेषबन्धु- र्व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट॥

4

अपि मदनपरार्धैर्दुष्करं विक्रियोर्मिं युवतिषु निदधानो भ्रूधनुर्धूननेन। प्रियसहचरवर्गप्राणमीनाम्बुराशि- र्व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट॥

5

नयनश‍ृणिम्विनोदक्षोभितानङ्गनागो न्मथितगहनराधाचित्तकासारगर्भः। प्रणयरसमरन्दास्वादलीलाषडङ्घ्रि- र्व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट॥

6

अनुपदमुदयन्त्या राधिकासङ्गसिद्ध्या स्थगितपृथुरथाङ्गद्वन्द्वरागानुबन्धः। मधुरिममधुधाराधोरणीनामुदन्वान् व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट॥

7

अलघुकुटिलराधादृष्टिवारीनिरुद्ध त्रिजगदपरतन्त्रोद्दामचेतोगजेन्द्रः। सुखमुखरविशाखानर्मणा स्मेरवक्त्रो व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट॥

8

त्वयि रहसि मिलन्त्यां सम्भ्रमन्यासभुग्नाप्य्- उषसि सखि तवालीमेखला पश्य भाति। इति विवृतरहस्यैर्ह्रेपयन्न् एव राधां व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट॥

9

व्रजनवयुवराजस्याष्टकं तुष्टबुद्धिः कलितवरविलासं यः प्रयत्नादधिते। परिजनगणनायां नाम तस्यानुरज्यन् विलिखति किल् वृन्दारण्यराज्ञीरसज्ञः॥

10

इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीव्रजनवयुवराजाष्टकं समाप्तम् ।॥