Dakshinamurthy Ashtakam

Ashtakam

1

अगणितगुणगणमप्रमेमाद्यं सकलजगत्स्थितिसम्यमादिहेतुम्। उपरतमनोयोगिहृन्मन्दिरम्तं सततमहं दक्षिणामूर्तिमीडे॥

2

निरवधिसुखमिष्टदातारमीड्यं नतजनमनस्तापभेदैकदक्षम्। भवविपिनदवाग्निनामधेयं सततमहं दक्षिणामूर्तिमीडे॥

3

त्रिभुवनगुरुमागमैकप्रमाणं त्रिजगत्कारणसूत्रयोगमायम्। रविशतभास्वरमीहितप्रधानं सततमहं दक्षिणामूर्तिमीडे॥

4

अविरतभवभावनादिदूरं पदपद्मद्वयभाविनामदूरम्। भवजलधिसुतारणमङ्घ्रिपोतं सततमहं दक्षिणामूर्तिमीडे॥

5

कृतनिलयमनिशं वटाकमूले निगमशिखाव्रातबोधितैकरूपम्। धृतमुद्राङ्गुळिगम्यचारुरूपं सततमहं दक्षिणामूर्तिमीडे॥

6

द्रुहिणसुतपूजिताङ्घ्रिपद्मं पदपद्मानतमोक्षदानदक्षम्। कृतगुरुकुलवासयोगिमित्रं सततमहं दक्षिणामूर्तिमीडे॥

7

यतिवरहृदये सदा विभान्तं रतिपतिशतकोटिसुन्दराङ्गमाद्यम्। परहितनिरतात्मनं सुसेव्यं सततमहं दक्षिणामूर्तिमीडे॥

8

स्मितधवळविकासिताननाब्जं श्रुतिसुलभं वृषभाधिरूढगात्रम्। सितजलजसुशोभिदेहकान्तिं सततमहं दक्षिणामूर्तिमीडे॥

9

वृषभकृतमिदमिष्टसिद्धिदं गुरुवरदेवसन्निधौ पठेद्यः। सकलदुरितदुःखवर्गहानिं व्रजति चिरं ज्ञानवान् शम्भुलोकम्॥