Shri Madhvashtakam
Ashtakam
1
अज्ञाननाशाय सतां जनानां कृतावताराय वसुन्धरायाम्। मध्वाभिधानाय महामहिम्ने हताघसङ्घाय नमोऽनिलाय॥
2
येन स्वसिद्धान्तसरोजमद्धा विकसितं गोभिरलं विशुद्धैः। दुस्तर्कनीहारकुलं च भिन्नं तस्मै नमो मध्वदिवाकराय॥
3
प्रपन्नतापप्रशमैकहेतुं दुर्वादिवादेन्धनधूमकेतुम्। निरन्तरं निर्मितमीनकेतुं नमाम्यहं मध्वमुनिप्रतापम्॥
4
शान्तं महान्तं नतपादकान्तं कान्तं नितान्तं कलितागमान्तम्। स्वान्तं नयन्तं त्रिपुरारिकान्तं कान्तं श्रियो मध्वगुरुं नमामि॥
5
पुनाननाम्ने मुरवैरिधाम्ने सम्पूर्णनाम्ने समधीतसाम्ने। सङ्कीर्तिताधोक्षजपुण्यनाम्ने नमोऽस्तु मध्वाय विमुक्तिसीम्ने॥
6
सन्मानसंसज्जनताशरण्यं सन्मानसं तोषितरामचन्द्रम्। सन्मानसन्यस्तपदं प्रशान्तं नमाम्यहं मध्वमहामुनीशम्॥
7
संस्तूयमानाय सतां समूहैश्चन्द्रायमानाय चिदम्बुराशेः। दीपायमानाय हरिं दिदृक्षोरलं नमो मध्वमुनीश्वराय॥
8
गुणैकसिन्धुं गुरुपुङ्गवं तं सदैकबन्धुं सकलाकलापम्। मनोजबन्धुं नतपादपद्मं नमाम्यहं मध्वमुनिं वरेण्यम्॥
9
मध्वाष्टकं पुण्यतमं त्रिसन्ध्यं पठन्त्यलं भक्तियुता जना ये। तेषामभीष्टं प्रतनोति वायुः श्रीमध्वनामा गुरुपुङ्गवोऽयम्॥
10
समस्तशास्त्राणि च सम्यगेव कृत्वा हरेः शाश्वतसद्गुणान् यः। प्रकाशयामास समस्तयुक्तिभिः श्रीमध्वनामा च सदा प्रसीदताम्॥
11
परमपुरुषश्रीचरणसरोरुहमधुकररूपकमानसमुदितम्। गुरुकुलतिलकश्रीमदानन्दतीर्थयोगिवरं सततमहं वन्दे॥
12
श्रीमल्लिकुचवंश्येन मध्वाष्टकमुदीरितम्। श्रीमत्त्रिविक्रमाख्येन गुर्वनुग्रहकारकम्॥
13
इति कविकुलतिलकश्रीमत्त्रिविक्रमपण्डिताचार्यविरचितं श्रीमध्वाष्टकं सम्पूर्णम्॥