chandrachUDAlAShTakam

Ashtakam

1

श्रीगणेशाय नमः॥

2

यमनियमाद्यङ्गयुतैर्योगैर्यत्पादपङ्कजं द्रष्टुम्। प्रयतन्ते मुनिवर्यास्तमहं प्रणमामि चन्द्रचूडालम्॥

3

यमगर्वभञ्जनचणं नमतां सर्वेष्टदानधौरेयम्। शमदमसाधनसम्पल्लभ्यं ग्रणमामि, चन्द्रचूडालम्॥

4

यं द्रोणबिल्वमुख्यैः पूजयतां द्वारि मत्तमातङ्गाः। कण्ठे लसन्ति विद्यास्तमहं प्रणमामि चन्द्रचूडालम्॥

5

नलिनभवपद्मनेत्रप्रमुखामरसेव्यमानपदपद्मम्। नतजनविद्यादानप्रवणं प्रणमामि चन्द्रचूडालम्॥

6

नुतिभिर्देववराणां मुखरीकृतमन्दिरद्वारम्। स्तुतमदिमवाक्ततिभिः सततं प्रणमामि चन्द्रचूडालम्॥

7

जन्तोस्तव पादपूजनकरणात्करपद्मगाः पुमर्थाः स्युः। मुरहरपूजितपादं तमहं प्रणमामि चन्द्रचूडालम्॥

8

चेतसि चिन्तयतां यत्पदपद्मं सत्वरं वक्त्रात्। निःसरति वाक्सुधामा तमहं प्रणमामि चन्द्रचूडालम्॥

9

नम्राज्ञानतमस्ततिदूरीकरणाय नेत्रलक्ष्माद्यः। धत्तेऽग्निचद्रसूर्यांस्तमहं प्रणमामि चन्द्रचूडालम्॥

10

अष्टकमेतत्पठतां स्पष्टतरं कष्टनाशनं पुंसाम्। अष्ट ददाति हि सिद्धिरिष्टसमष्टीश्च चन्द्रचूडालः॥

11

इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीचद्रचूडालाष्टकं सम्पूर्णम्॥