Patitapavana Ashtakam
Ashtakam
1
सचिन्त इव लक्ष्यसे सपदि मे चरित्रं स्मरन् परं कलितसाहसः पतितपावनत्वव्रतात्। न मामगणयः पुरा न हि विचारकालोऽधुना व्रतं विसृज वाथवा वरद पावयैनं जनम्॥
2
न राघव न वायसो न खलु कृष्ण चैद्योऽस्म्यहम् न खल्वहमजामिलो नरकनाश नारायण। प्रधानमपराधिनां परिवृढं च मां पापिनं क्षमाजलनिधे विदन् सपदि सावधानो भव॥
3
यद्युद्यदघलेखनाकलनजाग्रदग्राङ्गुलि- मिलत्प्रखरलेखनीमुखविघातवीतोद्यमः। अलं किल ललज्जिरे सपदि चित्रगुप्तादयः स एष पतिताग्रणी सदय रक्ष दक्षोऽसि चेत्॥
4
विदन्न् अपि हृदन्तरे प्रतिपदं यदंहःकृते यते यदुपते न ते विफलता व्रते स्यादिति। यतोऽसि जगतो गुरु स्मृतिनिषेधतस्ते ततो न नाम च भजामि यद्यथ वृथा क्रुधं मा कृथाः॥
5
अनन्त यदघावलीमननसावधानात्मकै- र्निजे दुरितमण्डले निखिलसाक्षिभिर्नेक्षिते। जना जगति निर्भया जय जयेति जल्पन्त्यमुं प्रभो खलधुरन्धरं पतितपावनश्चेदव॥
6
अनेकपतिताधिपान् अवति चक्रवर्ती यथा नृपान् अयमसज्जनः पतितपावनत्वेन नु। इति प्रतिदिशं खलाः पतितपावनं मां विदु- र्न पावयसि चेत् फलं ननु भवेदिदं केवलम्॥
7
कदापि हि पदामृतं तव मयापि नास्वादितं वृथा भवकथाभरैरपि च नाथ नीतं वयः। त्वया यदपि हेलया मयि न चेद्विधेया दया तवैव महती क्षतिः पतितपावनत्वं यतः॥
8
भवान् परमधार्मिकः प्रकटितातिकारुण्यकः स्वतन्त्रचरितो यदि स्वयमयं च किं नेदृशः। अलं किमपि चेत् स्वकं पतितपावनत्वादिकं प्रदर्शयतु नान्यथा भवतु ते यशः सर्वथा॥
9
वदन्ति यदि पाविताः पतितपावनत्वव्रतं भवन्तमधिकं न तत् परमदुर्विनीतोऽप्यहम्। पुनातु न पुनातु वा भुवि यथा तथैव ब्रुवे गृहाण गुणमेव मे कुरु कृपां सदोषा न के॥
10
इति पतितपावनाष्टकं सम्पूर्णम् ।॥