shrIshabarigiryaShTakaM

Ashtakam

1

शबरिगिरिपते भूतनाथ ते जयतु मङ्गलं मञ्जुलं महः। मम हृदिस्थितं ध्वान्तरं तवः नाशयद्विदं स्कन्द सोदर॥

2

कान्तगिरिपते कामितार्थदं कान्तिमद्तव काङ्क्षितं मया। दर्शयाद्भुतं शान्तिमन्महः पूरयार्थितं शबरिविग्रह॥

3

पम्पयाञ्चिते परममङ्गले दुष्टदुर्गमे गहनकानने। गिरिशिरोवरे तपसिलालसं ध्यायतां मनः हृष्यति स्वयम्॥

4

त्वद्दिदृक्षय सञ्चितव्रताः तुलसिमालिकः कम्रकन्धरा। शरण भाषिण शङ्घसोजन कीर्तयन्तिते दिव्यवैभवम्॥

5

दुष्टशिक्षणे शिष्टरक्षणे भक्तकङ्कणे मिशतिते गणे। धर्मशास्त्रे त्वयि च जाग्रति संस्मृते भयं नैव जायते॥

6

पूर्णपुष्कला सेविताप्यहो योगिमानसाम्भोज भास्करः। हरिगजादिभिः परिवृतो भवान् निर्भयस्वयं भक्तभीहरः॥

7

वाचिवर्त्ततां दिव्यनामते मनसिसन्ततं तावहं महः। श्रवणयोर्भवद्गुणगणावलिः नयनयोर्भवत् मूर्तिरद्भुताः॥

8

करयुगं मम त्वद्पदार्चने पदयुगं सदा त्वद्प्रदक्षिणे। जीवितं भवद्भक्तपूजने प्रणतमस्तुते पूर्णकरुणया॥