Shri Bhramaramba Ashtakam 2
Ashtakam
1
श्रीकण्ठार्पितपत्रगण्डयुगलां सिंहासनाध्यासिनीं लोकानुग्रहकारिणीं गुणवतीं लोकेक्षणां शाङ्करीम्। पाकाल प्रमुखामुरार्चितपदां मत्तेभकुम्भस्तनं श्रीशैल भ्रमराम्बिकां भज मनः श्रीशारदासेविताम्॥
2
विन्ध्यादीन्द्रगृहान्तरेनिवसितां वेदान्तवेद्यां निधिं मन्दारद्रुमपुष्पवासितकुचां मायाम्महामायिनीम्। बन्धूकप्रसवोज्ज्वलारुणरखां पञ्चाक्षरीरूपिणीं श्रीशैल भ्रमराम्बिकां भज मनः श्रीशारदासेविताम्॥
3
म्याच्छम्भनिशुम्भमेघपटलप्रध्वंस झञ्झानिलां कौमारीम्महिषाख्य शुष्कविटपी धूमोरुदावानलाम्। चक्राद्यायुधसङ्ग्रहोज्ज्वलकराञ्चामुण्डिकाधीश्वरीं श्रीशैल भ्रमराम्बिकां भज मनः श्रीशारदासेविताम्॥
4
दृक्यन्त विलासलल्पित सरोजातोरु शोभान्वितां नक्षत्रेश्वर शेखर प्रियतमां देवीं जगन्मोहिनीम्। रेञ्जर्मङ्गल दायिनीं शुभकरीं राजत्स्वरूपोज्ज्वलां श्रीशैल भ्रमराम्बिकां भज मनः श्रीशारदासेविताम्॥
5
केलीमन्दिर राजताचलतलां सम्पूर्ण चन्द्राननां योगिञ्छैरुतपादपञ्जयुगां रत्नाम्बरालङ्कृताम्। स्वर्गावास सरोजपत्र नयनाभीष्टप्रदां निर्मलां श्रीशैल भ्रमराम्बिकां भज मनः श्रीशारदासेविताम्॥
6
संसारार्णव तारकां भगवतीं दारिद्र्य विध्वंसिनीं सन्ध्याताण्डव केलिकां प्रियसतीं सद्दत्त कामप्रदाम्। ॐ जन्नूपुरपादपङ्कजयुगां बिम्बाधरां श्यामलां श्रीशैल भ्रमराम्बिकां भज मनः श्रीशारदासेविताम्॥
7
चञ्चत्काञ्चन रत्नचारु कटकां सर्वंसहावल्लभां काञ्ची काञ्चन घण्टिका घणघणं कञ्चित पतेक्षणम्। आर्तत्राणपरायं पुरहरप्राणेश्वरीं शाम्भवीं श्रीशैल भ्रमराम्बिकां भज मनः श्रीशारदासेविताम्॥
8
स्वर्णोकेश्वरवन्द्य पादकमलां पङ्केरुहाक्षसुतां प्रालेयाचलवंशपावनकरींशृङ्गारभूषानिधिम्। तत्त्वातीत महाप्रभां विजयिनीं दाक्षायिणीं भैरवीं श्रीशैल भ्रमराम्बिकां भज मनः श्रीशारदासेविताम्॥
9
भ्रमराम्बा महादेव्याष्टकं सर्वसिद्धिदम्। नराणां सर्वशत्रूणां ध्वंसनं तद्वदाम्यहम्॥
10
इति श्रीदूर्वासविरचितं श्रीभ्रमराम्बाष्टकं सम्पूर्णम् ।॥