Gangashtakam 10
Ashtakam
1
श्रीगणेशाय नमः। गिरिराजसुतां वितुलां विततां त्रिदशैर्महितां वियतः पतिताम्। कलुषै रहितां नरदेवहितां प्रणमामि सितां वहुसत्त्वयुताम्॥
2
अतिपूतगतामृषिराजनतां भुवनप्रथितामभिजातचिताम्। मुनिमानिनुतां मनुजैरमितां प्रणमामि सितां मुनिवक्रमिताम्॥
3
शिवशीर्षगतां कलनादयुतां भुजगेन नुतामजविष्णुहिताम्। अविगीतमतां कृतसिन्धुरतां प्रणमाम्यमृतां हरिपादमृताम्॥
4
जननीविनतां सुरहस्तिगतां दनुजैरजितां तपसा विजिताम्। जलदानरतां दयया विदितां प्रणमाम्यमृतां बहुभाग्ययुताम्॥
5
श्रुतिसारमितां स्मृतिषु प्रथितां कलिदोषकृतां शरणं प्रचिताम्। घृतदेवहुतां गुणिभिः प्रणतां प्रणमाम्यमृतां बहुभाग्ययुताम्॥
6
जनताकुलितां बहुधा ललितां कृतरम्यरुतां शमनादिनुताम्। नरलोकगतां परमार्थयुतां प्रणमाम्यमृतामपराधिहिताम्॥
7
बहुवेणियुतां जलजानहतां यतिभिर्मिलितामधिकाशि शिताम्। स्फटिकोपमितां स्तुतिगीतिमतां प्रणमाम्यजितामधिराजनताम्॥
8
सकलासुहितां सततावहितां कुणपैः पिहितां चिकुरावचिताम्। विहगध्वनितां विधिपात्रमतां प्रणमाम्यजितां श्रुतिसंप्रथिताम्॥