Shri Dananirvartanakundashtakam
Ashtakam
1
स्वदयितगिरिकच्छे गव्यदानार्थमुच्चैः कपटकलहकेलिं कुर्वतोर्नव्ययूनोः। निजजनकृतदर्पैः फुल्लतोरीक्षकेऽस्मि- न्सरसि भवतु वासो दाननिर्वर्तने नः॥
2
निभृतमजनि यस्माद्दाननिर्वृत्तिरस्मि- नत इदमभिधानं प्राप यत्तत्सभायाम्। रसविमुखनिगूढे तत्र तज्ञैकवेद्ये सरसि भवतु वासो दाननिर्वर्तने नः॥
3
अभिनवमधुगन्धोन्मत्तरोलम्बसङ्घ ध्वनिललितसरोजव्रातसौरभ्यशीते। नवमधुरखगालीक्ष्वेलिसञ्चारकाम्रे सरसि भवतु वासो दाननिर्वर्तने नः॥
4
हिमकुसुमसुवासस्फारपानीयपूरे रसपरिलसदालीशालिनोर्नव्ययूनोः। अतुलसलिलखेलालब्धसौभाग्यफुल्ले सरसि भवतु वासो दाननिर्वर्तने नः॥
5
दरविकसितपुष्पैर्वासितान्तर्दिगन्तः खगमधुपनिनादैर्मोदितप्राणिजातः। परितौपरि यस्य क्ष्मारुहा भान्ति तस्मि- न्सरसि भवतु वासो दाननिर्वर्तने नः॥
6
निजनिजनवकुञ्जे गुञ्जिरोलम्बपुञ्जे प्रणयिनवसखीभिः संप्रवेश्य प्रियौ तौ। निरुपमनवरङ्गस्तन्यते यत्र तस्मि- न्सरसि भवतु वासो दाननिर्वर्तने नः॥
7
स्फटिकसममतुच्छं यस्य पानीयमच्छं खगनरपशुगोभिः सम्पिबन्तीभिरुच्चैः। निजनिजगुणवृद्धिर्लभ्यते द्रागमुस्मि- न्सरसि भवतु वासो दाननिर्वर्तने नः॥
8
सुरभिमधुरशीतं यत्पयः प्रत्यहं ताः सखिगणपरिवीतो व्याहरन्पाययन्गाः। स्वयमथ पिबति श्रीगोपचन्द्रोऽपि तस्मि- न्सरसि भवतु वासो दाननिर्वर्तने नः॥
9
पठति सुमतिरेतद्दाननिर्वर्तनाख्यं प्रथितमहिमकुण्डस्याष्टकं यो यतात्मा। स च नियतनिवासं सुष्ठु संलभ्य काले कलयति किल राधाकृष्णयोर्दानलीलाम्॥
10
इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीदाननिर्वर्तनकुण्डाष्टकं सम्पूर्णम् ।॥