Vishvanathashtakastotram

Ashtakam

1

आदिशम्भु-स्वरूप-मुनिवर-चन्द्रशीश-जटाधरं मुण्डमाल-विशाललोचन-वाहनं वृषभध्वजम्। नागचन्द्र-त्रिशूलडमरू भस्म-अङ्गविभूषणं श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वनाथविश्वेश्वरम्॥

2

गङ्गसङ्ग-उमाङ्गवामे-कामदेव-सुसेवितं नादबिन्दुज-योगसाधन-पञ्चवक्तत्रिलोचनम्। इन्दु-बिन्दुविराज-शशिधर-शङ्करं सुरवन्दितं श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वनाथविश्वेश्वरम्॥

3

ज्योतिलिङ्ग-स्फुलिङ्गफणिमणि-दिव्यदेवसुसेवितं मालतीसुर -पुष्पमाला -कञ्ज-धूप-निवेदितम्। अनलकुम्भ-सुकुम्भझलकत-कलशकञ्चनशोभितं श्रीनीलकण्ठहिमाद्रिजलधर-विश्वनाथविश्वेश्वरम्॥

4

मुकुटक्रीट-सुकनककुण्डलरञ्जितं मुनिमण्डितं हारमुक्ता-कनकसूत्रित-सुन्दरं सुविशेषितम्। गन्धमादन-शैल-आसन-दिव्यज्योतिप्रकाशनं श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वनाथ-विश्वेश्वरम्॥

5

मेघडम्वरछत्रधारण-चरणकमल-विलासितं पुष्परथ-परमदनमूरति-गौरिसङ्गसदाशिवम्। क्षेत्रपाल-कपाल-भैरव-कुसुम-नवग्रहभूषितं श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वनाथ-विश्वेश्वरम्॥

6

त्रिपुरदैत्य-विनाशकारक-शङ्करं फलदायकं रावणाद्दशकमलमस्तक-पूजितं वरदायकम्। कोटिमन्मथमथन-विषधर-हारभूषण-भूषितं श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वनाथविश्वेश्वरम्॥

7

मथितजलधिज-शेषविगलित-कालकूटविशोषणं ज्योतिविगलितदीपनयन-त्रिनेत्रशम्भु-सुरेश्वरम्। महादेवसुदेव-सुरपतिसेव्य-देवविश्वम्भरं श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वनाथविश्वेश्वरम्॥

8

रुद्ररूपभयङ्करं कृतभूरिपान-हलाहलं गगनवेधित-विश्वमूल-त्रिशूलकरधर-शङ्करम्। कामकुञ्जर-मानमर्दन-महाकाल-विश्वेश्वरं श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वेनाथविश्वेश्वरम्॥

9

ऋतुवसन्तविलास-चहुँदिशि दीप्यते फलदायकं दिव्यकाशिकधामवासी-मनुजमङ्गलदायकम्। अम्बिकातट-वैद्यनाथं शैलशिखरमहेश्वरं श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वनाथविश्वेश्वरम्॥

10

शिवस्तोत्र-प्रतिदिन-ध्यानधर-आनन्दमय-प्रतिपादितं धन-धान्य-सम्पति-गृहविलासित-विश्वनाथ-प्रसादजम्। हर-धाम-चिरगण-सङ्गशोभित-भक्तवर-प्रियमण्डितं आनन्दवन-आनन्दछवि-आनन्द-कन्द-विभूषितम्॥