Shri Krishnasharana Ashtakam
Ashtakam
1
स्वामिनी चिन्तया चित्तखेदखिन्नमुखाम्बुजः। निमीलन्नेत्रयुगलः श्रीकृष्णः शरणं मम॥
2
मनोजभावभरितो भावयन्मनसा रतिम्। मीलनव्याकुलमनाः श्रीकृष्णः शरणं मम॥
3
निश्वासशुष्यद्वदनो मधुराधरपल्लवः। मुरली नादनिरतः श्रीकृष्णः शरणं मम॥
4
निकुञ्जमन्दिरान्तस्थ सुमपल्लवतल्पकृत्। प्रतीक्षमाण स्वप्राप्तिं श्रीकृष्णः शरणं मम॥
5
वियोग भाव विहसद्वदनाम्बुज सुन्दरः। आकर्णयन्नलिरुतं श्रीकृष्णः शरणं मम॥
6
मुञ्चन्न शूणि विलुठन् गायन्मत्त इव क्वचित्। नृत्यन् रसासक्तमनाः श्रीकृष्णः शरणं मम॥
7
शयान एकतस्तल्पे स्वप्नसम्बन्ध सिद्धये। प्रबोध पश्चात्तप्तोयः श्रीकृष्णः शरणं मम॥
8
रसात्म रसरीतिज्ञो रसलीलापरायणः। रसात्मगोपी रसिकः श्रीकृष्णः शरणं मम॥