Shri Mukambika Ashtakam

Ashtakam

1

नमस्ते जगद्धात्रि सद्‍ब्रह्मरूपे नमस्ते हरोपेन्द्रधात्रादिवन्द्ये। नमस्ते प्रपन्नेष्टदानैकदक्षे नमस्ते महालक्ष्मि कोलापुरेशि॥

2

विधिः कृत्तिवासा हरिर्विश्वमेतत्- सृजत्यत्ति पातीति यत्तत्प्रसिद्धम्। कृपालोकनादेव ते शक्तिरूपे नमस्ते महालक्ष्मि कोलापुरेशि॥

3

त्वया मायया व्याप्तमेतत्समस्तं धृतं लीयसे देवि कुक्षौ हि विश्वम्। स्थितां बुद्धिरूपेण सर्वत्र जन्तौ नमस्ते महालक्ष्मि कोलापुरेशि॥

4

यया भक्तवर्गा हि लक्ष्यन्त एते त्वयाऽत्र प्रकामं कृपापूर्णदृष्ट्या। अतो गीयसे देवि लक्ष्मीरिति त्वं नमस्ते महालक्ष्मि कोलापुरेशि॥

5

पुनर्वाक्पटुत्वादिहीना हि मूका नरास्तैर्निकामं खलु प्रार्थ्यसे यत्। निजेष्टाप्तये तेन मूकाम्बिका त्वं नमस्ते महालक्ष्मि कोलापुरेशि॥

6

यदद्वैतरूपात्परब्रह्मणस्त्वं समुत्था पुनर्विश्वलीलोद्यमस्था। तदाहुर्जनास्त्वां च गौरीं कुमारीं नमस्ते महालक्ष्मि कोलापुरेशि॥

7

हरेशादि देहोत्थतेजोमयप्र- स्फुरच्चक्रराजाख्यलिङ्गस्वरूपे। महायोगिकोलर्षिहृत्पद्मगेहे नमस्ते महालक्ष्मि कोलापुरेशि॥

8

नमः शङ्खचक्राभयाभीष्टहस्ते नमः त्र्यम्बके गौरि पद्मासनस्थे। (नमस्तेऽम्बिके) नमः स्वर्णवर्णे प्रसन्ने शरण्ये नमस्ते महालक्ष्मि कोलापुरेशि॥

9

इदं स्तोत्ररत्नं कृतं सर्वदेवै- र्हृदि त्वां समाधाय लक्ष्म्यष्टकं यः। पठेन्नित्यमेष व्रजत्याशु लक्ष्मीं स विद्यां च सत्यं भवेत्तत्प्रसादात्॥