Shridharashtaka Stava
Ashtakam
1
श्रीसद्गुरु प्रसन्न॥
2
सहस्रकमले शुभ्रं शोभनं शुभदं शिवं श्रीगुरुं संस्मरेद्दिव्यं सच्चिदानन्दविग्रहम्॥
3
कर्पूरसन्निभं गौरं द्विभुजं चन्द्रिकोज्वलम्। अमृतस्त्राविपद्मे वै शोभितं हंससम्प्रभम्॥
4
वराभयकरं शान्तं प्रसन्नं प्रसवस्वनम्। सुमन्दहसितं नित्यं ब्रह्मज्ञान विभान्वितम्॥
5
कृपानुकम्पयायुक्तं भक्तार्तिद्रवितं सदा। नितान्त मङ्गलोपाङ्गं भक्तचित्तप्रमोदनम्॥
6
सद्गुरुः श्रीधरोह्यात्मा शरण्यो मम निश्चयः। यस्य पादारविन्दौ वै हृदये सुप्रतिष्ठतौ॥
7
कायेन मनसा वृत्त्या मनसा सततं धिया। श्रीगुरोः चरणलीनो यो जीवन्मुक्तो स नित्यशः॥
8
संसारसागरे नौका सुदृढा सजवा सदा। सद्गुरोः चरणौ सत्यं भक्ततारणकारणौ॥
9
``श्रीधर'', ``श्रीधर'' प्रीत्या यो ब्रूयाच्छान्तितत्पराः। कृतकृत्यो भवेतस्य पुनर्जन्म न विद्यते॥
10
अष्टकं गुरुप्रीत्यर्थं यो नरः प्रपठेत्सदा। अतीव भक्तितो नित्यं, भवेत्सहिकृपान्वितम्॥