Shri Nrisimha Ashtakam 5
Ashtakam
1
%३८ यं ध्यायसे स क्व तवास्ति देव इत्युक्त ऊचे पितरं सशस्त्रम्। प्रह्लाद आस्तेऽखिलगो हरिः स लक्ष्मीनृसिंहोऽवतु मां समन्तात्॥
2
तदा पदाताडयदादिदैत्यः स्तम्भो ततोऽह्नाय घुरूरुशब्दम्। चकार यो लोकभयङ्करं स लक्ष्मीनृसिंहोऽवतु मां समन्तात्॥
3
स्तम्भं विनिर्भिद्य विनिर्गतो यो भयङ्कराकार उदस्तमेघः। जटानिपातैः स च तुङ्गकर्णो लक्ष्मीनृसिंहोऽवतु मां समन्तात्॥
4
पञ्चाननास्यो मनुजाकृतिर्यो भयङ्करस्तीक्ष्णनखायुधोऽरिम्। धृत्वा निजोर्वोर्विददार सोऽसौ लक्ष्मीनृसिंहोऽवतु मां समन्तात्॥
5
वरप्रदोक्तेरविरोधतोऽरिं जघान भृत्योक्तमृतं हि कुर्वन्। स्रग्वत्तदन्त्रं निदधौ स्वकण्ठे लक्ष्मीनृसिंहोऽवतु मां समन्तात्॥
6
विचित्रदेहोऽपि विचित्रकर्मा विचित्रशक्तिः स च केसरीह। पापं च तापं विनिवार्य दुःखं लक्ष्मीनृसिंहोऽवतु मां समन्तात्॥
7
प्रह्लादः कृतकृत्योऽभूद्यत्कृपालेशतोऽमराः। निष्कण्टकं स्वधामापुः श्रीनृसिंहः स पाति माम्॥
8
दंष्ट्राकरालवदनो रिपूणां भयकृद्भयम्। इष्टदो हरति स्वस्य वासुदेवः स पातु माम्॥
9
इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीलक्ष्मीनृसिहाष्टकं समाप्तम् ।॥