Shri Karapatra AshtakaM

Ashtakam

1

केचिद् भजन्ति विबुधा हरिमीशितार- ञ्चाऽन्ये हरं भवनिदाघहरं श्रयन्ति। धर्माऽऽर्तिखिन्नमनसां समुपासनीयं प्रत्यक्षितं हरिहराद्वयमद्वयन्नः॥

2

सद्राजनीतिनिपुणः किमु विष्णुगुप्तो वाचस्पतिर्निखिलशास्त्रविचक्षणो वा। आहो शुको नु भगवद्गुणगानधन्यो यस्मिन्नितीव समशायि यतिः स वन्द्यः॥

3

यस्याऽवसन्नवरसा रसने सरस्व- त्याभान्ति लेखतनवोऽतनुकीर्तिलेखाः। चेतस्य भूत्सरसिजोदरसौकुमार्यं स्मार्यो न कस्य स वशी शयभाजनार्यः॥

4

वन्द्यः स योऽकृतकृती सुकृतार्थसंस्थाः रामायणे श्रुतिषु चाऽतत वाक्प्रवाहान्। नैष्कर्म्यमूर्ध्वमधिताधिधरं तथापि कर्मेतराऽकृततरं व्यधिताऽऽप्रयाणम्॥

5

यः सत्कविर्गुरुगुरुर्बुधमङ्गलात्मा तीव्रप्रतापतपनश्च सतां च सोमः। धर्मद्विषां शनिरथो मदिनाञ्च राहुः केतुः कलेर्जयति दण्डिवरः स कोऽपि॥

6

कारागमैः शिरसि दण्डनिपातघातै- रप्येजनं न जनितं किल यस्य जातु। दीपः सनातनसृतेरपि गीष्पतेर्यो वार्येतरो हृदि विभाति स नः सदाऽऽर्यः॥

7

तिष्ठेत् प्रणष्टकुहकः सुपथे नरौघः पारेऽम्बुधिं जनगिरा प्रसरं प्रयातु। गावश्चरन्तु परितोऽस्तभया घटोध्न्यः स्वप्नस्तवेति यतिराट् ! फलिता कदा नु !॥

8

यो दण्डिवर्योऽतियतीन्द्रचर्यः श्रौताऽध्वनोऽभूद्भुवनेषु धुर्यः। श्रेयो भृतां शश्वदपीह चार्यो धार्यः स चित्ते करपात्र आर्यः॥