Shri Varaha Ashtakam
Ashtakam
1
कमलायतनेत्राय कमलायतनोरसे। वराहवपुषे दैत्यवराहवपुषे नमः॥
2
वामांसभूषायितविश्वधात्री वामस्तनन्यस्तकरारविन्दः। जिघ्रन मुखेनापि कपोलमेनां जीवातुरस्माकगुरोः स जीयात्॥
3
वेदिस्तनूराहवनीयमास्यं बहीं षि लोमानि जुहूश्च नासा। शम्या च दंष्ट्राजनि यस्य यूपो वालो मखात्मा स पुनातु पोत्री॥
4
पापेन दैन्येन भवाम्बुराशौ निपातितं मां निरवग्रहोर्मौ। धूतारिरद्धृत्य धरामिवोच्चैः कुर्यान्मुदं मे कुहनावराहः॥
5
वेशन्तति व्रतजुषां हृदयं मुनीनां वेगापगाविहृतिकाननचङ्क्रमाणाम्। मुस्तागणन्ति किल यस्य सुरारिवर्गाः कोलः स कोऽपि कुशलं कुरुतादजस्त्रम्॥
6
कल्याणमङ्कुरति यस्य कटाक्षलेशा- द्यस्य प्रिया वसुमती सवनं यदङ्गम्। अस्मद्गुरोः कुलधनं चरणौ यदीयौ भूयः शुभं दिशतु भूमिवराह एषः॥
7
कल्पान्तसन्ततधनाघननिर्विघात- निर्घातवातरवनिष्ठुरतारधीरम्। मायाकिटेबेधिरितगृहिणश्रवस्कं घोणापुटीघुरघुरारसितं पुनातु॥
8
झटिति विलुठदूर्मीचाटुवाचाटसिन्धु- स्फुटपटहविदस्रस्फोटदीप्तोटमुद्यम्। खरखुरपुटघाताधूतखाटारिवाटः। कपटकिटिरघौघाटोपमुच्चाटयेन्नः॥
9
यत्कारिकादर्पणाख्यकृतिनावा भवाम्बुधिम्। सन्तस्तरन्ति वरदगुरवे श्रीमते नमः॥