Shri Kamalamba Ashtakam

Ashtakam

1

अम्भोजासन शम्भरारि विनुतां रम्भादिसंसेवितां शम्भा कोटिशतप्रभां शतमखस्कन्देन्दु सम्पूजिताम्। अम्भपोतालि निकाश कुन्दलपरामम्भोधरस्यामलां वन्दे त्वां कमलाम्बिके भगवतीं श्रीचक्रराजेश्वरीम्॥

2

मध्यन्यस्तकराम्बुजां मृढपदावाप्त्यै तपः कुर्वतीं मन्त्राणामधिदेवतां मनुजपात् वाक्सिद्धि सन्धायिनीम्। मल्लीचम्पकमालती मणिलसत् कण्ठां मनोहारिणीं वन्दे त्वां कमलाम्बिके भगवतीं श्रीचक्रराजेश्वरीम्॥

3

उत्फुल्लारुणपङ्कजाङ्घ्रियुगलामुत्तुङ्गपीनस्तनीं उद्यद्भास्कर भासमानवसनां सूर्येन्दुबिम्बाननाम्। उद्यत्सूर्यनिभां ?उपनिषद्सारां परादेवतां (?) वन्दे त्वां कमलाम्बिके भगवतीं श्रीचक्रराजेश्वरीम्॥

4

अङ्गं स्वम्परिधावते स्वशिशवे किन्नायस्तन्यार्थिने चारोभ्याङ्गमपोह्यचाश्रुजननीस्तन्यं तदात्यादरात्। तद्वत्संसृतिपीडितं शिशुमिमां रक्षद्वयमाशु मां ज्ञानक्षीरगणा द्विजशिशुर्नोरक्षितः किन्त्वया॥

5

मह्यं दर्शय सुन्दरं निरुपमं त्रैयन्तवेद्यम्पदं संसारोपशमं सदाशिवमहाभाग्याब्धि चन्द्रोदयम्। मार्कण्डेयसुरक्षकं यमहृतः शल्यं यतेर्हृद्सुखं वन्दे त्वां कमलाम्बिके भगवतीं श्रीचक्रराजेश्वरीम्॥

6

बालां बालकुरङ्गलालनपरां फालेन्दुचूडामणिं बालारिष्टनिवारकग्रहवृतां बालेन्दुचूडप्रियाम्। भालाशोभन दिव्यगान नदिभिर्हल्लीसलास्यैस्तुतां वन्दे त्वां कमलाम्बिके भगवतीं श्रीचक्रराजेश्वरीम्॥

7

कल्याणीं करुणारसार्द्रनयनां कामारि वामाङ्गकां कस्तूरीमद्भासमान निटिलां कल्हारमालाप्रियाम्। कल्पान्तावतिकर्मकोट्रय सुलभां ज्ञानैकलभ्यां सदा वन्दे त्वां कमलाम्बिके भगवतीं श्रीचक्रराजेश्वरीम्॥

8

अम्ब त्वामनुचिन्तयामि शुभदामेधे न कामेहतिः नानाजन्मसु नित्यमेवहिवृथा त्वत्पादभक्तिं विना। नोचेन् मेचकथं जनिरभूत्तन्मे वद श्रीकरे अन्तर्हृद्यपुनर्भवाय सञ्चिन्तये त्वत्पदम्॥