Shri Anantanandacharya Ashtakam

Ashtakam

1

रामानन्दाग्रणीशिष्यं श्रीरामानन्दमठेश्वरम्। अनन्तानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम्॥

2

आनन्दभाष्यतत्त्वज्ञमात्मानात्मेशबोधकम्। अनन्तानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम्॥

3

ऐहिकामुष्मिकैश्वर्यदातारं भक्तिदानतः। अनन्तानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम्॥

4

चन्द्रवत् सम्प्रदायाब्धेर्वर्धकं राममन्त्रदम्। अनन्तानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम्॥

5

वादिनां विदुषां चासत्सिद्धानां मानमर्दकम्। अनन्तानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम्॥

6

सदाचारोपदेष्टारं सदाचार्यसुरेश्वरम्। अनन्तानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम्॥

7

शिष्याणां पञ्चसंस्कारकारकं हितकारिणम्। अनन्तानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम्॥

8

मन्त्रार्थकोविदं चाथ मन्त्रत्रयार्थदं नृणाम्। अनन्तानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम्॥