Shabarish Ashtakam
Ashtakam
1
(मूलमन्त्राक्षरमालास्तोत्रम्) ओङ्कारमृतबिन्दुसुन्दरतनुं मोहान्धकारारुणं दीनानां शरणं भवाब्धितरणं भक्तैकसंरक्षणम्। दिष्ट्या त्वां शबरीश, दिव्यकरुणापीयूषवारान्निधिं दृष्ट्योपोषितया पिबन्नयि विभो धन्योऽस्मि धन्याऽस्म्यहम्॥
2
``घ्रू''ङ्कारात्मकमुग्रभावविलसद्रूपं, कराग्रोल्लसत्- कोदण्डाधिकचण्ड,माशुगमहावेगे तुरङ्गे स्थितम्। दृष्ट्यैवारिविमर्ददक्ष,मभयङ्कारं शरण्यं सतां, शास्तारं मणिकण्ठमद्भुतमहावीरं समाराधये॥
3
``न''भ्राणं हृदयान्तरेषु, महिते पम्पात्रिवेणीजले, प्रौढारण्यपरम्परासु, गिरिकूटेप्वम्बरोल्लङ्घिषु। हंहो किं बहुना? - विभान्तमनिशं सर्वत्र तेजोमयं कारुण्यामृतवर्षिणं हरिहरानन्दाङ्कुरं भावये॥
4
``म''त्र्यास्तापनिवृत्तये भजत मां सत्यं शिवं सुन्दरं शास्तारं शबरीश्वरं च भवतां भूयात् कृतार्थे जनुः। लोलानन्ततरङ्गभङ्गरसनाजालैरितीयं मुदा पम्पा गायति भुतनाथचरणप्रक्षालनी पावनी॥
5
``प''ङ्क्तिस्था इह सङ्घगानकुशलाः नीलीवने पावने त्वन्माहात्म्यगुणानुकिर्तनमहानन्दे निमग्ना द्विजाः। भक्तानां श्रवणेषु नादलहरीपीयुषधारां नवां नित्यानन्दधनां विभो, विदधते देवाय तुभ्यं नमः॥
6
``रा''जन्ते परितो जरद्विटपिनोवल्लीजटोद्भासिन- स्त्वद्ध्यानैकपरायणाः स्थिरतमां शान्तिं समासादिताः। आनीलाम्बरमध्र्यभाण्डमनिशं मूध्र्ना वहन्तः स्थिता- स्तं त्वां श्रीशबरीश्वरं शरणदं योगासनस्थं भजे॥
7
``य''स्मिन् लब्धपदा प्रशान्तिनिलये लीलावने तावके सङ्गीतैकमये निरन्तरसमारोहा वरोहात्मके। एषा मामकचेतना परचिदानन्दस्फुरद्गात्रिका हा! हा! ताम्यति; हन्त! तामनुगृहाणानन्दमूर्ते, विभो॥
8
``गो''प्त्रे विश्वस्य हर्त्रे बहुदुरितकृतो मत्र्यलोकस्य शश्वत् कर्त्रे भव्योदयानां निजचरणजुषो भक्तलोकस्य निर्रम्। शास्त्रे धर्मस्य, नेत्रे श्रुतिपथचरणाभ्युद्यतानां, त्रिलोकी- भर्त्रे भूताधिभर्त्रे, शबरगिरिनिवासाय तुभ्यं नमोऽस्तु॥
9
इति श्रीवासुदेवन् एलयथेन विरचितं शबरीशाष्टकं अथवा मूलमन्त्राक्षरमालास्तोत्रं सम्पूर्णम् ।॥