Shri Sarayu Ashtakam

Ashtakam

1

चक्रवर्तीदशरथ उवाच। नमस्ते सरयू देवि वसिष्ठ तनये शुभे। ब्रह्मादि सकलैर्देवैरृषिभिर्नारदादिभिः॥

2

सदा त्वं सेविता देवि तथा सुकृतिभिर्नरैः। मानसाच्च समायाते जगतां पाप हारिणि॥

3

स्मरतां पश्यतां देवि पापनाशे पटीयसि। ये पिबन्ति जलं देवि त्वदीयं गतमत्सराः॥

4

स्तनपानं न ते मातुः करिष्यन्ति कदाचन। मनु प्रभृतिभिर्मान्यैमानितासि सदा शुभे॥

5

त्वत्तीर मरणेनैव त्वन्नाम रटनेन च। ये त्यजन्ति तनुं देवि ते कृतार्था न संशयः॥

6

त्वं तु नेत्रोद्भवा देवि हरेर्नारायणस्य हि। महिमा तव देवैश्च गीयते च मुहुर्मुहुः॥

7

तत्र का हि मनः शक्तिः स्तवने मानुषस्य च। त्वत्तीरे सर्व तीर्थानि निवसन्ति चतुर्युगे॥

8

नमो देवि नमो देवि पुनरेव नमो नमः। हे वासिष्ठि महाभागे प्रणतं रक्ष बन्धनात्॥