Shri Govindadevashtakam
Ashtakam
1
जाम्बूनदोष्णीषविराजिमुक्ता मालामणिद्योतिशिखण्डकस्य। भङ्ग्या नृणां लोलुपयन् दृशः श्री गोविन्ददेवः शरणं ममास्तु॥
2
कपोलयोः कुण्डललास्यहास्य- च्छविच्छिटाचुम्बितयोर्युगेन। संमोहयन् सम्भजतां धियः श्री गोविन्ददेवः शरणं ममास्तु॥
3
स्वप्रेयसीलोचनकोणशीधु प्राप्त्यै पुरोवर्ति जनेक्षणेन। भावं कमप्युद्गमयन् बुधानां गोविन्ददेवः शरणं ममास्तु॥
4
वामप्रगण्डार्पितगण्डभास्वत् ताटङ्कलोलालककान्तिसिक्तैः। भ्रूवल्गनैरुन्मदयन् कुलस्त्री- र्गोविन्ददेवः शरणं ममास्तु॥
5
दूरे स्थितास्ता मुरलीनिनादैः स्वसौरभैर्मुद्रितकर्णपालीः। नासारुधो हृद्गत एव कर्षन् गोविन्ददेवः शरणं ममास्तु॥
6
नवीनलावण्यभरैः क्षितौ श्री रूपानुरागाम्बुनिधिप्रकाशैः। सतश्चमत्कारवतः प्रकुर्वन् गोविन्ददेवः शरणं ममास्तु॥
7
कल्पद्रुमाधोमणिमन्दिरान्तः श्रीयोगपीठाम्बुरुहास्यया स्वम्। उपासयंस्तत्रविदोऽपि मन्त्रै- र्गोविन्ददेवः शरणं ममास्तु॥
8
महाभिषेकक्षणसर्ववासोऽ लङ्कृत्यङ्गीकरणोच्छलन्त्या। सर्वाङ्गभासाकुलयंस्त्रिलोकीं गोविन्ददेवः शरणं ममास्तु॥
9
गोविन्ददेवाष्टकमेतदुच्चैः पठेत्तदीयाङ्घ्रिनिविष्टवीर्यः। तं मज्जयन्नेव कृपाप्रवाहै- र्गोविन्ददेवः शरणं ममास्तु॥
10
इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीगोविन्ददेवाष्टकं सम्पूर्णम् ।॥