Shri Shadvarnamantra Ashtakam

Ashtakam

1

धनुर्धरित्रीधरसार्वभौमो मौर्वी च दर्वीकरसार्वभौमः। शरस्तु सर्वामरसार्वभौमः पायात्स नो दैवतसार्वभौमः॥

2

वेदान्ततत्त्वमथितं नवनीतसारं चिद्रूपदृक्परमशैवरहस्यमन्त्रम्। ज्योतिर्मयोज्ज्वलनिरञ्जनरूपमन्त्रं वन्दे षडक्षरिसदाशिवनाममन्त्रम्॥

3

अश्रान्तदुष्कृतिसमुद्रतरीशमन्त्रं (अश्रान्तदुर्भव) पापाम्बुराशिबडवानलतुल्यमन्त्रम्। ब्रह्माच्युतेन्द्रसुरमौलिजपैकमन्त्रं वन्दे षडक्षरिसदाशिवनाममन्त्रम्॥

4

कामादिवर्गविपिनप्रलयाग्निमन्त्रं दुर्दोषशैलकुलिशाधिकभीममन्त्रम्। मायान्धकारपरिशोषित (शोषण) भानुमन्त्रं वन्दे षडक्षरिसदाशिवनाममन्त्रम्॥

5

अष्टत्रयाष्टपुरवायुविकारकोश- (अत्रष्टयाष्ट) क्लेशाष्टपाशबहुदुःखविनाशमन्त्रम्। दुश्चित्तदुर्व्यसनदामविभेदमन्त्रं (दुश्चिन्त) वन्दे षडक्षरिसदाशिवनाममन्त्रम्॥

6

पञ्चप्रसादमहिताक्षरबीजमन्त्रं मन्त्राग्रगण्यभुवनस्तुतमन्त्रराजम्। सर्वोऽपि मन्त्रजनकप्रणवात्ममन्त्रं वन्दे षडक्षरिसदाशिवनाममन्त्रम्॥

7

ओङ्कारबिन्दुसहिताधिकशक्तिबीजं पञ्चाक्षरत्रितयवर्णकमेकवर्णम्। एकादशाक्षरसमन्वितहंसमन्त्रं वन्दे षडक्षरिसदाशिवनाममन्त्रम्॥

8

श्रीसज्जनात्मबहिरन्तरवित्कटाग्र (बहिरन्तरदीप्तिकृद्र?) क्ष्माभागगर्जितनिरन्तरघोषमन्त्रम्। षट्चक्रमण्डपविहारविशुद्धमन्त्रं वन्दे षडक्षरिसदाशिवनाममन्त्रम्॥

9

षड्वर्णमन्त्राष्टकमद्भुतार्थं सर्वागमप्रोक्तजगत्प्रकाशम्। यः संपठेन्मुक्तिसमस्तभोगान् प्राप्नोति सत्यं सति सिद्धमन्त्रम्॥

10

इति श्रीषड्वर्णमन्त्राष्टकं सम्पूर्णम्॥