Navanita Krishna Ashtakam
Ashtakam
1
मन्दस्मितं मधुरकोमललास्थलीलं कन्दर्पकोटिकमनीयकिशोरमूर्तिम्। कुन्दस्फुरद्दशनकं कुटिलालकान्तं वन्देय नन्दतनयं नवनीतकृष्णम्॥
2
नाट्यावलोकनकुतूहलिभिः प्रदिष्टं कोट्या करस्य नवनीतघनं दधानम्। शाट्या शिशोरुचितया शबलावलमं वीट्या लसन्मुखमिमो नवनीतकृष्णम्॥
3
मञ्जीरमञ्जुचरणं मृदुलाङ्गुलीकं पुञ्जीभवन्मधुपपुष्कलपुष्पमालम्। कञ्जीभवन्नयनमाश्रितिदेहभाजां सञ्जीवनं नम मनो नवनीतकृष्णम्॥
4
पूरेण नीलमहसां परिपूर्णगात्रं हारेण मौक्तिकजुषा हृतसर्वचित्तम्। चोरेण मोहितमुनिं दधिकुण्डभाजा पारेगिरं स्तुहि मनो नवनीतकृष्णम्॥
5
पद्मालयाधरणिपालितपार्श्वयुग्मं सद्मास्थितं मणिकनत्कनकावक्लृप्तम्। छद्मादिदूरगजनैः परिचर्यमाणं विद्मः कथं वयममुं नवनीतकृष्णम्॥
6
ध्यातं सदा मुनिजनैरभिवृद्धहर्षैः पूतं मुहुर्व्रजवधूजनचुम्बितैस्तैः। क्रीतं क्षणेन शरणागतदीनवाचा स्फीतं श्रिया भज मनो नवनीतकृष्णम्॥
7
उद्यन्मृगाङ्ककमनीयमुखारविन्दं सद्यःस्फुरत्कमलकोमललोचनान्तम्। यद्यन्नताभिलषितं तदुपार्जयन्त- मद्य स्मरामि सरसं नवनीतकृष्णम्॥
8
तुङ्गं गुणैरनुपमैरनवद्यगन्धैः सङ्गं श्रितेषु सततं स्वयमादधानम्। अङ्गं वहन्तमतुलं नवमेघनीलं त्वं गन्तुमर्हसि मनो नवनीतकृष्णम्॥
9
नवनीतकृष्णविषयामवनीसुरभावुकां स्तुतिं कथयन्। सवनी सम्पन्नः स्यात् स वनी स यतिः स एव मुक्तश्च॥