Suryakritam Bhavanimangalashtaka Stotram

Ashtakam

1

रविरुवाच। देवि त्वदीयचरणाम्बुजरेणुगौरीं भालस्थलीं वहति यः प्रणतिप्रवीणः। जन्मान्तरेऽपि रजनीकरचारुलेखा तां गौरयत्यतितरां किल तस्य पुंसः॥

2

श्रीमङ्गले सकलमङ्गलजन्मभूमे श्रीमङ्गले सकलकल्मषतूलवह्ने। श्रीमङ्गले सकलदानवदर्पहन्त्रि श्रीमङ्गलेऽखिलमिदं परिपाहि विश्वम्॥

3

विश्वेश्वरि त्वमसि विश्वजनस्य कर्त्री त्वं पालयित्र्यसि तथा प्रलयेऽपिहन्त्री। त्वन्नामकीर्तनसमुल्लसदच्छपुण्या स्रोतस्विनी हरति पातककूलवृक्षान्॥

4

मातर्भवानि भवती भवतीव्रदुःख- सम्भारहारिणि शरण्यमिहास्ति नान्या। धन्यास्त एव भुवनेषु त एव मान्या येषु स्फुरेत्तवशुभः करुणाकटाक्षः॥

5

ये त्वां स्मरन्ति सततं सहजप्रकाशां काशीपुरीस्थितिमतीं नतमोक्षलक्ष्मीम्। तान्संस्मरेत्स्मरहरो धृतशुद्धबुद्धी- न्निर्वाणरक्षणविचक्षणपात्रभूतान्॥

6

मातस्तवाङ्घ्रियुगलं विमलं हृदिस्थं यस्यास्ति तस्य भुवनं सकलं करस्थम्। यो नाम ते जपति मङ्गलगौरि नित्यं सिद्ध्यष्टकं न परिमुञ्चति तस्य गेहम्॥

7

त्वं देवि वेदजननी प्रणवस्वरूपा गायत्र्यसि त्वमसि वै द्विजकामधेनुः। त्वं व्याहृतित्रयमिहाऽखिलकर्मसिद्ध्यै स्वाहास्वधासि सुमनः पितृतृप्तिहेतुः॥

8

गौरि त्वमेव शशिमौलिनि वेधसि त्वं सावित्र्यसि त्वमसि चक्रिणि चारुलक्ष्मीः। काश्यां त्वमस्यमलरूपिणि मोक्षलक्ष्मी- स्त्वं मे शरण्यमिह मङ्गलगौरि मातः॥

9

स्तुत्वेति तां स्मरहरार्धशरीरशोभां श्रीमङ्गलाष्टकमहास्तवनेन भानुः। देवीं च देवमसकृत्परितः प्रणम्य तूष्णीं बभूव सविता शिवयोः पुरस्तात्॥

10

इति श्रीस्कादपुराणे काशीखण्डे पूर्वार्द्धे एकोनपञ्चाशत्तमा- ध्यायान्तर्गतं सूर्यकृतं श्रीमङ्गलाष्टकस्तोत्रं समाप्तम्। स्कन्दपुराण। काशीखण्ड। पूर्वखण्ड। अध्याय ४९/५५-६३॥