Gayatri Ashtakam

Ashtakam

1

गायत्र्यष्टकम् सुकल्याणीं वाणीं सुरमुनिवरैः पूजितपदाम् शिवामाद्यां वन्द्यां त्रिभुवनमयीं वेदजननीम्। परं शक्तिं स्रष्टुं विविधविध रूपां गुणमयीं भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम्॥

2

विशुद्धां सत्त्वस्थामखिल दुरवस्थादिहरणीं निराकारां सारां सुविमल तपो मूर्तिमतुलाम्। जगज्ज्येष्ठां श्रेष्ठामसुरसुरपूज्यां श्रुतिनुतां भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम्॥

3

तपो निष्ठाभीष्टांस्वजनमनसन्तापशमनीं दयामूर्तिं स्फूर्तिं यतितति प्रसादैकसुलभाम्। वरेण्यां पुण्यां तां निखिल भव बन्धापहरणीं भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम्॥

4

सदाराध्यां साध्यां सुमति मति विस्तारकरणीं विशोकामालोकां हृदयगत मोहान्धहरणीम्। परां दिव्यां भव्यामगमभवसिन्ध्वेक तरणीं भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम्॥

5

अजां द्वैतां त्रैतां विविधगुणरूपां सुविमलां तमो हन्त्रीं-तन्त्रीं श्रुति मधुरनादां रसमयीम्। महामान्यां धन्यां सततकरुणाशील विभवां भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम्॥

6

जगद्धात्रीं पात्रीं सकल भव संहारकरणीं सुवीरां धीरां तां सुविमल तपो राशि सरणीम्। अनेकामेकां वै त्रिजगसदधिष्ठानपदवीं भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम्॥

7

प्रबुद्धां बुद्धां तां स्वजनमति जाड्यापहरणां हिरण्यां गुण्यां तां सुकविजन गीतां सुनिपुणीम्। सुविद्यां निरवद्याममल गुणगाथां भगवतीं भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम्॥

8

अनन्तां शान्तां यां भजति बुध वृन्दः श्रुतिमयीं सुगेयां ध्येयां यां स्मरति हृदि नित्यं सुरपतिः। सदा भक्त्या शक्त्या प्रणतमतिभिः प्रीतिवशगां भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम्॥

9

शुद्ध चित्तः पठेद्यस्तु गायत्र्या अष्टकं शुभम्। अहो भाग्यो भवेल्लोके तस्मिन् माता प्रसीदति॥